________________
श्रीमत्यायासमानामरहितऽसदया सत्यसाराज हर्ष
श्रीमत्यायासमानाऽमर हित सदया सत्यसारा जहर्ष । देवी वामा सुरुच्या शिवपदजनने तेऽरमातारनव्या
देवीवामासुरुच्या शिवपद जननेते रमातार नव्या ॥१७॥ श्रीश्रीजातापनाशं नयद जगदरं तेन कामं समायं । श्रीश्रीजातापनाशं नयदज गदरं तेनकामं समायम् । श्रेयो नाऽऽपत् प्रजापं जयदमद सदादे हि नामाप्तरूप
श्रेयो नापत् प्रजापं जयदमद सदा देहिनामाप्तरूप ॥१८॥
-
हे आयासमानामरहित प्रयासगर्वरोगमुक्त! हे सत्यसार सूनृतप्रधान ! हेऽज! हेऽऽयोगुणानिरूपो लाभस्तेन आसमन्तादया श्रीस्तया चाऽसमान ! हेऽमरणां सुराणां हितोपदेशकत्वाद्धित वत्सल ! यद्वा न म्रियते इति हेऽमर ! हे हित! शिवपदस्य मोक्षपदस्य जननमुत्पत्तिरस्येति हे शिव! इतो गतः ईरः कम्पोऽस्येति हे इ० ! हेऽरजिन ! हे शिवपद मङ्गलास्पद ! ते तव जनने जन्मनि देवी नाम माता जहर्षाऽऽननन्द, हेऽरम हेऽक्रीड! हेऽतार अन्यातार्य! यद्वा हे रमातार श्रीमनोज्ञ! अथवा देवी किंविशिष्टा ? रमा श्रीस्तया तारनव्या मनोज्ञतरुणी अत एव श्रीमती शोभाभागिनी तथा सदया दयान्विता हर्षश्रीः प्रमोदलक्ष्मीः का? सनयो भाग्यं यस्याः सा सदया सती सुशीला न सहारेणाऽरिजा ते नास्ति या साऽसारा, तथा रुच्या कान्याऽमासु अप्रमाणासु वामासु स्त्रीषु देवीव देवाग. नातुल्या इत्यर्थः । अत एव नव्या शक्राद्यैः स्तुत्येति ॥ १७ ॥ हे श्रीप्रधाना या श्रीराज्ञी तस्या जात पुत्र ! असाधारणविशेषणत्वात् हे कुन्थुजिनेत्यर्थः । हे नयद नीतिप्रद ! हे ताऽहलक्ष्मीस्तस्या इन पते! हेऽज! हेऽगद अगर्व 1 जयदमौ ददातीति हे जयदमद ! आप्तं प्राप्तं रूपं देहसंस्थानादि येन हे आप्तरूप ! सन् प्रधान आदिरुपस्यादिरूपोऽस्येति हे सदादे प्रशस्य ! आप्त आप्तरूप! "प्रशस्यरूपमिति हे आप्तरूपं हि निश्चितं" ते तव नाम प्रकृष्टो जापः प्रजापस्तं नयत् प्रापयज्जगद्विश्वं श्रेयो मोक्षं न नापदपितु प्रापैवेत्यर्थः । श्रेयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org