SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १३२ सन्मानासाङ्गजन्माऽदरमलम चिरादार साराङ्गताराs सन्माना साङ्गजन्मादरमलमचिरा दारसाराङ्गतारा । प्रायादुामनाशाच्छमपर भवतो विश्वसेनस्य राज प्रायादुामनाशाच्छमपरभवतो विश्वसेनस्य राज ॥१६॥ प्रभावोऽस्याः साऽपा० । सदा सर्वदा सुष्ठ व्रतं यस्याः सा सु०, प्रभौ भर्तरि आदरं भक्तिविशेषं आप्ता प्राप्ता सादराऽभूदित्यर्थः, प्रभौ किंभूते ? अघनानो काऽऽशा वाञ्छाऽस्य वीतरागजनकत्वादिति तत्राऽघनाशे पापात्यये सज्जास्तधताथा (१) श्रीरस्या धाम सद्म ॥ १५॥ हे गतार नष्टारिजात! असन्नविद्यमानो मानोऽहङ्कारोऽस्येति हे स० ! न सहाऽङ्गजन्मना स्मरेणाऽस्तीति हेऽसां! नास्ति दरो भयं मलं पापमनयोर्मा श्रीरस्येति हेऽद० ! शमेन पर प्रकृष्टो भवतस्त्वत्तोऽङ्गजन्माऽमुत्राग् अरं शीघ्रं अलमत्यर्थ, अचिरा नाम राज्ञी चिरात् प्राग् त्वादशपुत्राभावाद्वहोः कालात् शं सुखमार प्राप । अचिरा कीदृशी? सती शोभना मा श्रीः प्रमाणं वा यस्या ईदृशी नासा नासिकाऽस्याः सा सन्मा० नेत्रश्रिया सारको मृगस्तद्वत्तारा मनोज्ञा, यद्वा सारङ्गवद् दृक्ताराऽस्याः सा सारामृगाक्षी इत्यर्थः। अतएव दारेषु कलत्रेषु सारं प्रधानं, कस्येत्याहविश्वा सम्पूर्णा सेना सैन्यमस्य तस्य विश्वसेनस्य नाम राज्ञः पृथ्वीपतेः भवतः, किंभूतात् ? प्रकृष्ट आयो लाभोऽयो भाग्यं वाऽस्य तस्मात् प्रा०, नास्त्याशा वाञ्छाऽस्य तस्मात् अना०, तथा उा पृथुलायामु| भुवि राजप्रायाचन्द्रतुल्यात् , नास्ति नाशः क्षयोऽस्य तस्मादना०, नास्ति परः शत्रुर्भवः संसारोऽस्य तस्मान्नसि अय०, यद्वैवं व्याख्याऽचिरात्स्वजनानन्तरितमेवाऽऽसमन्तादसाया रतां उत्सवश्रियं रातीति हेऽवि० । अः सम्बोधने, आः स्मरणे वा, तव गुणान् स्मरन्ती अचिरा नाम्नी त्वदम्बा शं प्रायादगच्छत् , कीदृशं शम् ? अङ्गजन्मा स्मरस्तत्र य आदरः स एव मलं पापं न सहते नास्ति यत्तत् असां० । अचिरा किंभूता ? जिनमातृत्वेन गतारा नष्टारिजाता, सन्यः सज्जनेभ्यो मानः पूजाऽस्याः सा सन्मानेति, शेषं प्रागवत् । श्रीतीर्थराजपदपभसेवेत्यत्र तदङ्गजन्मादित्यत्र विप् चाऽवगन्तव्य इति ॥ १६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy