SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ सातङ्कामन्ददानेऽरत परमदमासत्तमाः कामदेहा ऽसातङ्कामन्द ! दाने रत पर मदमासत्तमाः कामदेहा ॥१४॥ जाताऽपारप्रभावा दरमरण सदा सुव्रताप्ताघनासो जातापार प्रभावादरमरणसदा सुव्रताप्ताघनाशो । सज्जाया धामभानोऽरतनुतरम ते धर्म रक्ताधरेश सजाया धाम भानोरतनुतरमते धर्मरका धरेश ॥ १५ ॥ हे सुमते० ! न विद्यते रतं विषयः, परो रिपुर्मदो गर्वः, यद्वा पर इव दुःखदत्वादिपुरिव परः प्रकृष्टो वा मदोऽस्येति हेडर! हे कामद इष्टद । इह जगति, हेऽसातङ्क असभय ! हेऽमन्द अजिह्म! दानविषये, हे रत तत्पर । शुभवति श्रेयखति भवति त्वयि रुच्या वासनया नताः प्रणताः सन्तः के झा विद्वांसो रागं विषयाभिलाषं दारयन्ति नन्तीति रागदारा न स्युरपि तु नीराम. पदं सिद्धिलक्षणं प्राप्नुयुरेवेत्यर्थः । ज्ञाः कीदृशाः? मासत्तमाः श्रीप्रकृष्टास्तथा परमः प्रकृष्टो क्षमो(?)ऽक्षजयो येषां ते पर०, सत्तमाः शक्रादीनां पूज्याः । भवति किंभूते ? न विद्यन्ते गदो रोगोऽरोऽरिजातोऽकं दुःखं यस्येति तस्मिन् अग० तथा सातं सौख्यं कामं अत्यर्थं ददाने वितरति, कामवत् स्मरवद्देहोऽहं येषां ते का० ॥ १४ ॥ न विद्यते दरमरणे भयमृती यस्येति यद्वा नास्ति, दरो यत्र ईदृशं, सकृन्मरणं यस्येति हेऽद० ! आप्यते उपायोऽर्थोऽस्मात् , यद्वाऽऽप्ती रागादिदोषक्षितिः साऽस्त्यस्येत्यर्शआदित्वादति. हेऽतापार ! हेऽरण असंग्राम ! हे धाममिस्ते. जोभिर्भानो सूर्य ! हेऽतप्त! हे जन्तोतापहेतुत्वात्तापः स चाऽसौ आरोऽरिसमूहश्च, यद्वा तापः कषायादिः स एव चारः स नास्ति यस्येति, यद्वा नास्ति तायाः ज्ञानश्रियाः परोऽस्य, नास्ति ता गार्हस्थ्यश्रीरस्येति, अपगतः आरोऽस्येति वा हेs. तापार ! अरता योगिनस्तैर्नुता स्तुता रमा ज्ञानादिश्रीरस्येति हेर! हे धर्मनाथ! रक्तौ प्रवालाभौ अधरावोष्ठपल्लवी यस्पति हेर. हे ईश प्रभो! भानोर्नाम धारयामीष्टे इति क्विपि धरेशः पृथ्वीपतेः सजाया कलत्रं सुव्रतानाम्री त्वदम्बा खे तवाऽतनुतरमतेऽतिप्रौढशासने धर्मरक्ता जाता जझे । भगवति धर्मनाथे गर्भावतीर्णे तदम्बा किल धर्मदोहदा जातेयैतिह्यम् , सुव्रता कीशी? अपारोऽनन्तः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy