________________
सोमा श्यामा भवस्याऽनिधुवन सुधृतेऽनाश भावारसूर
सोमाऽश्यामाऽभव स्याऽनिधुवन सुधृतेऽनाश भावार सूर । व्यापद्विश्वान्यमाना शिव विमलत मोहा समज्ञानते न
व्यापद्विश्वान्यमानाशिव विमलतमोहासमज्ञान तेन ॥१३॥ केऽनन्तज्ञानरुच्याऽऽशु भवति सुगते तेन तारागदाराः
केऽनन्त ज्ञान रुच्या शुभवति सुगतेतेनता रागदाराः । तमेवाधितिष्ठेत्यर्थः । त्वं कीदृशः ? नास्ति व्याधी रोगोऽस्य स तथा । भत्र सो रुत्वे रेफपरत्वाद् रोरे लुगित्यनेनाऽस्य लुक् , प्राग्दीर्घत्वम् चेत्येवमग्रेऽपि ज्ञेयम् , तथा न जायत इत्यजः, सच्छोभनं मानं प्रमाणं यस्य सः, तथा महा महत्तरं चिज ज्ञानं यस्य सः, नास्ति सम यस्य सः, तथा नराणां पुंसां प्रतिवस्तु ममेत्यभिलाषं हन्तीति विपि सौ इन्हन्नित्यनेन दीर्घत्वे नरममहा ॥ १२॥हे नास्ति निधुवनं मैथुनं यस्येत्यनिधु० ! सुष्ठ धृतिस्तुष्टिरस्येति हे सुधृते ! नास्त्याशा वाञ्छाऽस्येति हेऽनाश! हे भावारेण प्रभापुजेन सूर सूर्य ! हेऽनिधुवन निष्प्रकम्प ! सुष्टु धृतिमुक्तिलक्षणं सुखमस्येति हे सु० ! अत एव नास्ति नाशः क्षयोऽस्येति, हे भावारोऽभ्यन्तरारिजतश्च (१) यस्येति हेऽभा० ! सुष्टु उरो हृदयमस्येति हे सूर । है शिव निरुपद्रव ! हे विमल जिन ! समे सर्वे ज्ञा विद्वांसस्तेषां कर्तृभूतानां नतिः प्रणामोऽस्येति, हे समाऽविगता आपद् यस्येति हे व्यापद् ! न विद्यते मानाशिवे गर्वामङ्गले यस्येति, हेऽमा विमलतमोऽतिनिर्मल ऊहोऽस्येति हे वि.! असमं ज्ञानमस्येति हेऽस! ते तव सा प्रसिद्धा उमा कीर्तिरमानाऽप्रमाणा सती विश्वानि संपूर्णानि विश्वानि जगन्ति न व्यापदपि तु व्यापैवे. त्यर्थः । कीदृश्युमा ? सोमश्चन्द्रस्तद्वदश्यामा श्वेताऽतएव तमोऽन्धकारं दुःखं वा हन्ति या सा तमोहा, तव किंभूतस्य ? नास्ति भवः संसारोऽस्य तस्याऽभवस्य, तथा श्यामा नाम राज्ञी तस्या भवति यस्तस्य श्या० ! तमोऽज्ञानं हन्तीति हे तमोह । इति । जिनामन्त्रणे तु आसमन्तात् समस्तज्ञानां सर्व विदुषां मा नतिर्यस्येति हेऽस. 1 इति कार्यम् ॥ १३ ॥ हेऽनन्तं निःसीमं यज्ज्ञानं तेन रुच्यमान मनोज्ञ ! सुष्टु गतिर्यस्येति हे सुगते! हे ता श्रीस्तस्या इन खामिन् ! हे तार प्रधान ! हेऽनन्तजिन ! सुष्टु अतिशयेन गता नष्टा ईतयोऽस्मादिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org