________________
१२९
सौम्यो मायाहसत्वा समदमपरमाज्ञ तु वेगेन धीरं
सौम्यो मायाहस त्वा समद्मपरमाः ज्ञ स्तुवे गेन धीरम् ॥११॥ साराव्याधीरसेनासमरदसमताभास्वरश्रीजयाऽज
साराव्या वीरसेनासमरद समताभास्वर श्रीजयाज । सद्मानो वासुपूज्या मदनरम महाचित्ततोहासमाया
,
सद्मा नो वा सुपूज्यामद नरममहा चित्ततोऽहास मा या १२ इन्द्रियदमः कार्य इति दमेन परमा प्रकृष्टाऽऽज्ञाऽस्येति हे दम० सौम्या प्रसन्ना उमा कीर्तिस्तस्याऽऽयो लाभोऽस्य, यद्वा सौम्यावुमायौ कीर्तिशुभदैवे यस्येति हे सौम्यो० ! न हसति प्रमादाभावात् इति हेऽहस ! अपास्ता रमा राज्यादिश्रीर्येनेति हेऽपरम ! सौम्यः कषायरोधादरौद्रः सन्नहं त्वा त्वां स्तुवे स्तौमि । केनेत्याह- गेन गीतेन 'गं गीते' इति वचनात् तुः पुनः वेगेन त्वरया, यद्वा कीदृशा वेगेन ! न गच्छति इत्यगेन अविनश्वरेणेत्यर्थः । कीदृशोऽहम् ? अज्ञः मूर्खः, भवद्गुणस्तुतौ वाक्पतेरप्यशक्तत्वात् कोऽहमित्यर्थः, त्वां किंभूतम् ? घनो निबिडो रोगस्तं हन्ति यस्तं नास्ति कान्ता स्त्रीरस्य, अकस्य दुःखस्याऽन्तो यस्येति वान्तं अकान्तं, आप्तं प्राप्तं श्रेयसो मोक्षस्य श्रेयः सर्वोपद्रवाभावरूपं कल्याणं येन तं आप्तं, आरमरिजातं आपद्विपदघं पापं तान्येव नगा वृक्षास्तान् दहति भस्मीकरोतीत्यचि क्विपि वाऽम् विभक्त्याऽऽरापादघनगदहं सर्वदा सदान्तं मनोज्ञं, नास्ति कस्य सुखस्याऽन्तोऽस्येति वाऽकान्तम्, धीर्बुद्धिस्तां राति यस्तं तथा धीरं परीषहाक्षोभ्यमिति ॥ ११॥ हे सार नीतिसार ! हे रसायाः पृथ्व्या इन पते ! असमा निरुपमा रदा दन्ता असमा विषमा ता श्रीभ कान्तिः, स्वरो ध्वनिः, श्रीः शोभा, जयोऽक्षदमो यस्येति हेऽसम ! सारा प्रधाना धीरा रणे स्थिरा एषा सेना चमूस्तया समरः संग्रामस्तं द्यति विच्छिनत्तीति हे धी० ! हे समताभास्वर सौम्योज्ज्वलश्रियोपलक्षित! जयानाम राज्ञी तस्या जायत इति हे श्री० ! हे वासुपूज्य जिन ! नास्ति मदनरमा कामश्रीरस्मिन्निति हेsमदनरम ! ततो विस्तीर्णो विचारोऽस्येति हे त० ! न सह माययाऽस्तीति हेऽस० ! हे सुपूज्य सुष्टुमा ! हे नास्ति मदोऽस्येति अमद ! हे नास्ति हासं यस्येति अहास ! त्वं नोऽस्मान् अव्याः पायाः, वा पुनर्नोऽस्माकं चित्ततो मानसान्मा याः मा गावि तो. स. ९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org