________________
१२८
शुद्धो नन्दाज ! विश्वाहित ! रहिततमः शीतलामन्दसार: . शुद्धो नन्दाऽज! विश्वाहितरहिततमः शीतलामन्दसारः। सूद्युत्ताराय शोभामय नरकमला भोगदातापरागः
सूधुत्तारायशोभामयनरकमला भोगदाताऽपरागः ॥ १० ॥ श्रेयःश्रेयांस मारापद घनगदहं सर्वदाकान्तमाप्त
श्रेयः श्रेयांसमारापदघनगदहं सर्वदाकान्तमाप्त!। अमाया । कासु ? रामासु ख्रीषु, त्वां कीदृशम् ? जगत्प्रतीतम् , शेषं प्राग्वत् । मन्वमायारामेत्यत्राऽसामर्थ्यावृद्धस्य राज्ञः पुरुष इत्यादिवत् समासो न स्यात् सामर्थ्यात् समासे च रामाखित्यनेन सापेक्षत्वं न स्यात् । मैवम् । देवदत्तस्य गुरुकुलमित्यादिवदत्र वृत्तेऽपि सापेक्षत्वाहानेः स्यादेव समासः, यदुक्तम्, “सम्बधिशब्दः सापेक्षो नित्यं सर्वः प्रवर्तते । खार्थवत्सा व्यपेक्षास्य वृत्तावपि न हीयते" इति ॥ ९॥हे नन्दाया नाम राज्ञाः जायते इति हे नन्दाज! विश्वे सर्वे येsहिता रागाधरयस्तैरतिशयेन रहित, हे विश्वायाः पृथ्व्याः हित !(2) रहितं त्यतं तमो येनेति हेऽर० ! यद्वा विश्वाया हितं रातीति हे विश्वाहितर ! त्वं कीदृक् ? ततमः तता विस्तीर्णा मा श्रीरस्य स तथा ! हे शीतल सर्वथा कोपाभावाच्छीतलखभाव ! हेऽमन्द नीरोग ! हेऽज शीतलजिन ! सुष्ठ उत् प्राबल्येन द्युत् दीप्तिर्यासां ताश्च तारा नक्षत्राणि च तद्वद् यशसः कीर्तेर्भा प्रभाऽस्येति हे सू०! हे सूद्युत् प्रोल्लासभृत्तारो मनोज्ञोऽयो भाग्यं यस्येति हे सू० ! हे शोभामय सशोभ! नास्ति परोऽन्योऽपि कश्चिदागोऽपराधोऽस्येति हेऽप. ! शुद्धः केवलस्त्वमेवेत्यर्थः, नन्द जयेति, त्वं कीहक् ? अमन्दमजिमं सारं बलं यस्य स अमं० । शुद्धः क्षालितः कर्ममलः, सां रातीति सारः प्रधानो वा, आमया रोगाः नरकं दुर्गतिर्मलं पापं तेषामाभोगो विस्तारोऽस्य दातीति दाता च्छेत्ता, अपास्तो रागो येन स तथा, नराणां पुंसां कमला श्रीभोगाः सूकन्दनादि तयोर्दाता दायकः ॥ १० ॥ श्रेयश्चासौ श्रेयांसश्चेत्युभयनामप्रसिद्धत्वात् हे श्रेयःश्रेयांस ! यदुक्तं 'ऋषभो वृषभः श्रेयान् श्रेयांस' इति, यद्वा श्रेयान् प्रशस्यतमः स चाऽसौ श्रेयांसचेति हे श्रे०! हे मारापद स्मरास्थान ! सर्व ददातीति हे सर्वद ! हे आप्त विश्वहित ! मायां हन्तीति हे मायाह ! हे सत्वासम बलाऽप्रतिम ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org