________________
भास्वञ्चित्तं सुसारातनु भवन मतोदार तत्त्वासमानं ... भावञ्चित्तं सुसारा तनु भव नमतो दारतत्त्वा समानम् ॥८॥ माया रामासुतं कोकलकल सुविधेऽनारतं धीर नत्वाऽ- . - माया रामासु तं को कलकलसुविधे नाऽरतं धीर न त्वा । शम्भोऽगेहाप हीनं गुरुरुचिरतर्नु भासमानं श्रियोया ..
शं भोगेहापहीनं गुरु रुचिरतनुं भासमानं श्रियोाम् ॥९॥ वेश्म ! हे मतोदार शासनेनाद्भुत ! यस्य जनस्यः त्वा खां नमतो वन्दमानस्य चित्तं मनो भास्वत् प्रमुदितखात् कश्मलव्यपगमत्वात् कान्तिमद् बभूव । बभूवेति क्रियाऽध्याहार्या । स पुमान् वा श्रीशं सुखं, यद्वा तया श्रिया शं शर्माऽऽर प्राप । कीग् ? मही स्थानं । कस्य ? अयस्य भाग्यस्य, त्वां किंभूतम् ? नास्ति रताशा विषयेच्छा यस्य तं, अरप असमानं साहकारं चित्तो भावश्चिद्रूपा वा ता श्रीश्चित्ता भावद्वच्चित्ताऽस्य तं भा०! तवैरसमानसमदृशमिति ॥ ८॥ हे मायाः श्रियाः, कोर्भूमेः कला मनोज्ञा कला यस्येति हे क.! हे सुविधे सुविधिजिन ! हे शम्भो अर्हन् ! धियं बुद्धिं रातीति हे धीर ! हेऽगेह ! अनगारत्वात् त्वा त्वां नमस्कृत्य ना पुमान् कलं सुखं नाऽऽप न लेभे ? अपितु सर्वोऽप्यापैवेत्यर्थः । किंभूतो ना? गृणाति तत्त्वार्थमिति गुरुस्तत्र रुचिर्यस्येति हे गु०! गुरौ रुचिर्हि जिनधर्मरुचेर्निबन्धनं गुरोस्तत्रैव प्रवर्तकत्वात् , त्वां कीदृशम् ? रामा नाम राज्ञी तस्याः सुतं पुत्रम् । तथा आ समन्तात् शोभना ता श्रीरस्येति तं । असुतं अरतं अक्रीडं, हि निश्चये, इनं खामिनं श्रिया शोभयाऽतर्नु प्रौढम्, भाभिर्महोभिरसमानमसदृशम् । भोगः स्त्रीस्रक्चन्दनादिः तस्येहा वाञ्छा तयापहीनं रहितम् । गुरुरत्यन्तं रुचिरा कान्ता तनुर्देहोऽस्य तं गुरु० । उर्ध्या गुा०, उर्ध्या भुवि श्रिया समवसरणादिरूपया भासमान, अस्मिन् वृत्ते हे मा-को । त्वां कीदृशम् ? असुतं श्रियाऽतनुम् , श्रिया भासमानमित्यत्र प्रायो भिन्नार्थाभावात् पौनरुक्त्याः शङ्का स्यात् तन्निरासार्थ मासुतम् । अत्र स्थाने रामाभवमिति पाठो युक्तस्तथा चैवं व्याख्या-रामानाम राज्ञी तत्र भवति यस्तं रामाभवं, तथा नास्ति भवः संसारोऽस्येति अभवम् । शेषं प्राग्वत् । अथवा पृथगर्थकल्पनया पौनरुक्त्यं परिहार्यम् । यद्वा एवं व्याख्या-अमाया मायारहिता या रामानाम राझी तस्याः सुतं पुत्रम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org