________________
१२३
राजावामाजमायाहर शमद महानङ्गजन्माजितारे
राजावामाज मायाहर शमदमहा नङ्गजन्माजितारे । कल्याणच्छाय तत्त्वादर सुभग जरानाशनः शम्भवेन:
कल्याणच्छायतत्त्वादरसुभगजरानाशनः शम्भवेनः ॥ ३ ॥ सिद्धार्थासंवराङ्गप्रभवभवमदो नाऽरताऽकाऽयितारः
सिद्धार्थाऽऽसंवराङ्गप्रभव भवमदोऽनारताऽकायितारः । लमत्र नास्ति मा मानमस्य, यद्वा महे तु राम इव वा यो मोहश्चतुर्थकर्म तस्यासनं सप्ततिकोटाकोटिरूपां स्थिति गदेन रोगेणाऽमा सह नोऽस्माकं नाशय अपनयेति । गदेन कीदृशेन? तमोरङ्गदेन तमो दुःखं तस्य रङ्ग उत्सवस्तं ददातीति तथा, यद्वा तमोऽज्ञानं अरंगदेन गदेन सह नाशय, कीदृक् तमः? अममोहस्यासनमवस्थानं, अथाममोहासनं तमो वा कीदृशम् ? हेऽमम ! ऊहो विचारः, यद्वा अम• मश्वासावूहश्च ममतारहितविचारस्तस्यासनं क्षेपो यस्मात्तत्तथा त्वं गति, कीदृक् ? अतिशयेन अजितोऽजिततमो रागादिरिति शेषः, सह मानेनाऽहकारेण वर्तत इति समानोन तथाऽसमानः, अविनोदोऽक्रीडः, निश्चि-इनः, खामी तत्तद्गुणैः सूर्यो वा, विगतो नोदः क्षयो यस्य सः, तथा नास्ति रतिधृतिर्यस्यां तया रत्या विषयेण हीनो रहित इति ॥२॥ नास्ति वामा स्त्री यस्येति हे वाम ! यद्वा हे वाम अप्रतिकूल !, यद्वा हे वाम मनोज्ञ! हेऽज ! हे शमद शान्तिद ! म रोगमजति क्षिपतीति हे माज! मायां हरतीति है मायाहर हेऽदम! दमाभाव अहिंसक !, नास्त्यङ्गजन्मा स्मरोऽस्येति अनङ्ग, जन्मकल्याणकस्य स्वर्णस्येव छायाऽङ्गकान्तिर्यस्येति हे कल्याणच्छाय! हेऽदर निर्भय ! सुष्टुर्भाऽस्येति है सुभ ! गजं राति ददातीति हे गजर ! गजान्तश्रीदेत्यर्थः, नास्त्याशा नाशो वाऽस्येति हेऽनाश ! हे शम्भो अर्हन् । कल्याणेन मङ्गलेनोपलक्षिता भव्या वा छाया महिमश्रीर्यस्येति हे कल्या. णच्छाय ! जीवादितत्त्वेषु आदरोऽस्यति हेतत्त्वादर ! हेसुभग सौभाग्यवन्, है. शंभव ! शं सुखं दत्त्वा विस्तार्य नोऽस्माकमेनः पापं हराऽपनयेति । त्वं कीदृग् । नाताकस्या इत्याह-मया श्रियास्तथा महान् पूजार्ह ! हेऽगजन्मा सुतः, कस्य ? जितारेर्नृपस्य, किंविशिष्टस्य आजौ रणे जितारेरभिभूतशत्रोतथा जराया वयोहाने शनः क्षेपकस्तथा इनः प्रभुः ॥ ३॥ हे सिद्धार्था राज्ञी संवरो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org