________________
१२२
श्रीकान्तेहाममोहासममजिततमो रङ्गदेनासमानः । श्रीकान्तेहाममोहा सममजिततमोरङ्गदेनासमानः । रत्या हीनो विनोदो नयपर विजयाजात नो नाशयामा
रत्याहीनो विनोदो नयपरविजयाजाऽतनो नाशयामा ॥२॥
स, तथा हे अज अजन्म ! हे श्रीन ! श्रिया अर्हलक्ष्म्या इनः कान्तः । हे अपमान अपगताहकार ! हे नरहिततम ! नरेषु प्रकृष्टवत्सला सा लक्ष्मीरानन्दो हर्षस्तो ददातीति हे सानन्दद! हेऽमनोज निष्काम ! त्वं नन्द जय, त्वं कथंभूतः ? अमेयो मोहाद्यरिभिरिति गम्यम् । अत्रभवतः श्रीनामेयस्य दारामनस्त्वेऽमनोजत्वममनोजत्वे च तमोराहित्यमिह चापमान ! खमत्रापि च सानन्ददत्वमिहापि च नरहिततमत्वमत्रोपमानो न तत्राप्यजत्वमत्र च श्रीनत्वं हेतुः । यद्यजमनोजशब्दौ जिनविशेषणे व्याख्यायेते तदैवं व्याख्या-हेऽमेयस्त्व. मनोऽमनोजश्चाऽसि, स त्वं हे आनन्दद ! नन्देति व्याख्यार्थः। शेषं तथैव । सानन्ददेत्यत्र 'तदः सेः खरे पदार्थे'त्यनेन से कि 'समानाना' मित्यनेन सन्धिः सिद्धः । अथवा वाक्यान्तरमाह-हेऽतार ! अन्यातार ! हे धीर ! हे असम ! हे वृषभजिन ! हे समवृषभ ! समा समस्ता वृषेण भा महिमाऽस्येति, ना पुमान् , त्वाऽनत्वा ब्रह्म मोथां(?)ननाराऽपि तु स्वायेव, ना कथंभूतः? तारधीरा तारा मनोज्ञा धीर्बुद्धिस्तस्या इरा स्थानं, त्वां कथंभूतम् ? चारित्रेण सारं प्रशस्तम् , तथा जिनाः केवलिनो दशमगुणस्थानवर्तिनो वा, ब्रह्म शीलमवध्यादिज्ञानं वा तद्धारिण एषां त्रं रक्षक बलं यस्य तां नत्वेत्यत्रामात्वत्यनेनाऽमा सह युष्मदस्त्वादेशः पग्वदश() दावपि सर्वत्रातारधीरादिसंबोधनविशेषणानि पूर्वापरसंबन्धसंबद्धान्येवावगन्तव्यानि ॥१॥ हे श्रीकान्त शोभया सुभग! हेऽसमान ! हे श्रीकान्त ! हे. समान ! श्रीरहलक्ष्मीः सैव कान्ता तस्यामीहा वाञ्छा यस्य, हे नयपर ! नया नैगमाद्यास्तैः प्रकृष्ट ! हे विजयाजात ! विजयाराज्ञी तस्या जातः पुत्रः । हेऽनाशयाम ! अमो रोगो न विद्यते तो यस्य, यद्वा न विद्यते शयं मनस ईहा यस्य सः तथा या लक्ष्मीस्तस्यामश्चन्द्रः । लक्ष्मीर्हि चन्द्रपद्माद्यधितिष्ठति "चन्द्रं गता पद्मगुणान्न भुते पद्मं गता चान्द्रमसी न लेखा" इत्युक्तेः, हे नयपरविजय नयं द्यूतं तदेव परः शत्रुस्तस्य विजयो यस्मात् स, तथा हेऽज! हेऽतनो हेऽदेह!
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org