________________
१२१
पित्रादिप्रतिबन्धबन्धुरगुणामुग्रग्रहयन्थिकां
खेच्छामुक्त्यभियोगजातनिबिडीभावां सुखेच्छामिषाम् । मोहव्याधकदर्थ्यमाननिपतत्प्राण्युत्करामेणवत्
प्राप्तोऽहं भववागुरां जिनपते ! वामेय ! मां मोचय ॥२४॥ तीब्राकृत्यपरंपराप्रहरणे क्लीबीकृतप्राणिके
दुानास्थनि विप्लवासृजि दुराचारप्रहारोत्कटे। भूरिप्राभवभीमभावरिपुभिभूयोऽभिभूतो भव
द्वन्द्वेऽहं शरणं गतोऽस्मि भवतः श्रीवीर! रक्ष प्रभो!॥२५॥ इति जिनवराः सम्यग्भक्त्या मया समभिष्टुता
नवनवभवायासव्यासप्रकाशपुरस्सरम् । दलितविपदः सन्तु श्रीमत्कवीन्द्रकुलप्रभस्तुतनतपदाः श्रेयोलक्ष्मीनिवाससुखप्रदाः ॥ २६ ॥
॥ इति चतुर्विंशतिजिनस्तवः ॥
चतुर्विंशतिजिनस्तवः। श्रीनाभेयोपमानोन रहित तमसा नन्द दारामनोऽजः
श्रीनाभेयोऽपमानो नरहिततम सानन्ददारामनोज!। न त्वा नातारधीरा सम वृषभजिन ब्रह्मचारित्रसारं नत्वा नातारधीरा सम वृषभजिन ब्रह्मचारित्रसारम् ॥१॥
॥अवचूरिः॥ अथाऽस्य किश्चिद् व्याख्या । हे श्रिया युक्तो नाभिः श्रीनाभिस्तस्यापत्यं श्रीनामेय ! हे उपमानोन ! उपमानेन ऊनो मुक्तः निरुपमान इत्यर्थः, हे रहित ! केन ? इत्याह-तमसाऽज्ञानेन, हे दाराऽमनो ! दारेषु कलत्रेषु मनो न विद्यतेऽस्य . १ स्तोत्रमिदं दुरवगाहं अवचूरिश्चाबद्धति यथालब्धं संगृहीतमखि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |