SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ तेषां किं कुरुते भवोरगपतिर्भीष्मोऽपि येषामिदं चित्ते स्फूर्जति नाम मत्रसदृशं श्रीकुन्थुतीर्थेशितुः ॥१८॥ अज्ञानोच्छ्रितभस्मकीर्णममितो लोभस्फुरत्फेरवं मोहप्रेतमनल्पदुर्गतिचितारौद्रं कषायद्विषम् । चेद्भो भीमभवश्मशानमशिवाऽमुक्तं विमोक्तुं मनो वस्तुं मोक्षपुरे च तजिनवरः श्रीमान्नरः सेव्यताम् ॥१९॥ संज्ञाद्वारः समन्तादविरतिसरितामाश्रयोऽसातवात_प्रक्षोभैर्दुनिरीक्ष्यः परमतविततावर्तविभ्रान्तजन्तुः । तृष्णावेलाकरालो धनरसनिचितो नोकषायोग्रनकः क्रूरोऽयं नाथ! कुम्भोद्भव! भवजलधिः शोष्यतां मल्लिदेव. २० ये मातापितूपुत्रबन्धुदयिताद्यास्तत्त्वबुद्ध्या क्षणं दृष्टास्तानपि कृत्रिमानिव जवाद् दृष्ट्वा विनष्टानहम् । व्यामूढोऽस्मि भवेन्द्रजालपतितो जातो विलक्षः पुन स्तन्मे दूरमपास्य सुव्रतविभो ! तत्त्वप्रकाशं कुरु ॥ २१ ॥ कालं भ्रान्तोऽस्म्यनन्तं वृषभनिभभवचन्द्रसूरप्रयोगात् प्रभ्राम्यत्कालचक्राञ्चलति गतिघटीयत्रकेऽस्मिन् घटीवत् । सिञ्चन् दुःकर्मनीरैर्जननमृतिवनं भीष्मसंसारकूपे तस्मान्मे मोहबन्धं नमिजिन! विरलीकृत्य मोक्षं कुरुष्व २२ अश्रान्तं विगलद्विवेकविभवे श्रेयःकणोपद्रवे .हीनप्राणिपरिस्फुदत्पदि भवे प्रोत्सर्पिदीनारवे । . दुःखौघप्रभवे भवे गतशिवे दुर्भिक्षवद्धैरबे भ्रान्तोरोर इवाऽस्मि नीरदमिभं नेमे ! भवन्तं विना ॥२३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy