SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ११९ अज्ञानध्वान्तपूरा कुमतबिलपतजन्तुका मोहनिद्रा निद्राणास्तोकलोकाऽन्धितसकलसदृक् शोकघूकातिधोरा । प्रेमप्रेतप्रचारा न भवति भयदा तस्य संसाररात्रिः पूज्यः श्रीवासुपूज्योऽर्क इव समुदितो यस्य चित्तोदयाद्रौ १३ सञ्चैतन्यहृता कदाग्रहकृता सौमुख्यशोभावृता ". ज्ञानाऽङ्गानि विधुन्वता मतिमतां हास्यत्वमातन्वता । प्रेतेनेव भवेन ये विगलिताश्चेद् योग्यता तत् कुरु तन्मुक्तान् विमलेश तान् निजवचोमवाक्षरश्रावणात् ॥१४॥ कृत्वा रूपपरम्परां बहुविधां विध्वंसयद्भिः पुन ष्टैिः कर्मभिरप्रयोजनतया दुष्टैः कुलालैरिव । आरोप्यातिचलाचले भवमहाचक्रेऽहमुच्चैश्चिरं मृत्स्नावद्भमितोऽस्मि विष्टपपतेऽनन्त ! त्वयोपेक्षितः ॥१५॥ मत्ताः केचन केचन अपतिताः केचित् पुनर्मूच्छिताः, ___ केचिन्मूढतमाश्च केचन पुनर्निश्चेतनाः सर्वथा । मूढा यत्र विमोहमद्यवशतस्तस्मिन् भवापानके .. श्रीधर्माऽऽपतितोऽस्मि बोधय दयावास ! स्वशक्त्या ततः १६ मिथ्यादर्शनकन्दशालिनि रुषाबीजाचिते मूढता___ नालीभाजि कुवासनाजलभृते कर्माष्टपत्रावृते । सौरभ्यभ्रमतो भ्रमद्भमरवल्लीनो भवाम्भोरुहे.. बद्धस्त्रत्र दलैविमोचय ततः शान्ते ! जगद्भास्कर ! ॥१७॥ कोपाटोपफटोऽप्रवृत्तिरसनः कालुष्यकृष्णाङ्गभू- दुरस्मरतीव्ररागगरलोद्गारैर्जगन्मूर्च्छयन् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy