SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ११८. तस्मिन्मोहनटप्रपञ्चरहिते संसारनाट्येऽबुधा नृत्यन्तो यदि लज्जिताः श्रयत तत् पद्मप्रभं स्वामिनम् ॥ ७॥ कर्माऽम्भः परिषेकसङ्गविततः सम्मोहमूलो मदस्कन्धो विघ्नदलो जरामृतिबृहच्छाखाप्रशाखाकुलः । मिध्यादृङ्गरवानरो भवतरुर्दुष्टस्तदुन्मूलने जीयादुन्मदहस्ति मल्लसदृशः श्रीमान् सुपार्श्वो जिनः ॥ ८ ॥ रागद्वेषविषाणभीषणतरः सम्मूर्च्छदिच्छाकरो मूर्च्छापुच्छधरश्चतुर्गतिमहाकुक्षिः कषायक्रमः | युक्तः कुश्रुतिगर्जितेन भवतां भीत्यै भवेभो भवेद् भो भव्या जिनसिंहमाशु शरणं तद्यात चन्द्रप्रभम् ॥ ९ ॥ किंपाकप्रतिमप्रमादपटले कन्दर्पसर्पाकुले स्फूर्ज दुःखदवानले जनिजरादुःखापदैः सङ्कुले | निर्विण्णोऽस्मि परिभ्रमन् भववने तन्मे जिनेशात्मनो निर्बाधे सविधे विधेहि सुविधे ! वासं कृपाया निघे ! ॥१०॥ दुग्धज्ञानजनाः कषायदहनैर्मिथ्यात्व धूमान्धिताः स्फारोद्भूततृषाव्यथासमुदयज्वालौघसन्तापिताः । आ: प्राप्स्यन्ति भवे प्रदीपित इवावस्थां न कां कां जड़ा लीयन्ते नहि पादपद्मसरसि श्री शीतलखामिनः ॥ ११ ॥ निर्मनो विषयाशुचिव्यतिकरे कर्मावलीपङ्किले रौद्रोपद्रवविद्रुतोऽपि बहुधा तत्रैव कुर्वन् रतिम् । गर्तायामिव गर्तशूकर शिशुर्भूयो विगुप्तो भवे श्रीश्रेयांसविभो ! ऽधुना मम पुनस्त्वत्पादपद्मं गतिः ॥ १२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy