________________
श्रेयसे भव मह्यं त्वं निकामशम ! शीतल ।। कृतानन्तशिवश्रेयन् जयाङ्गज मदासन ॥४॥ विमल ! ज्ञानसंपन्न! सदानन्तसुखावह ! । मदनं मदलं धर्म नाशयाशयसङ्गतम् ॥ ५ ॥ वसुधाविहितानन्द ! शान्ते ! शान्तरसालय !। तमो हर ममाऽऽशु श्रीनन्दनासारमानहृत् ॥ ६ ॥ सुगन्धिशीलमल्ले ! त्वां भावारिभयभीलुके । मयीह सुव्रतस्वामी भवामदन मे भय ॥ ७ ॥ शिवाभव नमामि त्वां न वामेयमदासन ।
हतमोह महावीर ! नवीनहरिदीधिते ॥ ८॥ शोभनो विधिर्यस्य ॥३॥ निकाममत्यर्थम्। शमः प्रशमो यस्य । दशमो जिनः, श्रेयांस एकादशः, जयानाम देवी तस्या अङ्गजः, मदं जात्याद्यष्टभेदमस्यतीति । विशेषणपक्षे, निकामशमेन शीतलः एकान्तशान्तात्मा । कृतानि अनन्तानि शिवानि श्रेयांसि येन स कृतानन्तशिवश्रेयान् , सम्बोधने तु दीर्घवाभावः । हे नाथ ! त्वं जय । है कन्दर्पनाशन ! ॥४॥ विमलजिन ! ज्ञानेन सम्पन्न ! अनन्तजिन ! भक्तानां सर्वसौख्यजनक ! मदनं कामं मत्सकाशात् अलमतिशयेन हे धर्म! नाशय दूरीकुरु । शयसङ्गतं चित्तवर्तिनम् । विशेषणपक्षे, विमलं च तज्ज्ञानं च तेन सम्पन्नः । सदा निरवधिसौख्यजनक ! अलमत्यर्थमतिशयेन. धर्मों यस्य ॥ ५॥ पृथिव्यां विहितानन्द !.........सामस्त्येन सार्वभौमत्वात् । सा नवनिधानरूपा लक्ष्मीर्यस्य सः । हे अरनाथ! । विशेष । भूमौ विहित आनन्दः शान्तिर्येन, (श्रीनन्दनं) काममस्यतीति कामास! अरीणां समूह आरं अन्तरङ्गबहिरङ्गरूपं तस्य मानं हरतीति ॥ ६॥ सुगन्धि गरिमप्राप्तं शीलमस्य । भावारिभीरौ मयि खामी भव । विशेष सुगन्धिशीतलमेव मल्लो विचकिलो यस्य । शोभनानि व्रतानि यस्य । न मदनेन रूपवत्त्वात् मातुं शक्या भा कान्तिर्यस्य । सोऽमदन । अयेन शुभभाग्योदयेन भासि खयमेव शोभसे ॥७॥ मदमस्यतीति ततो द्वौ नौ प्रकृत्यर्थ यमयतः। अनित्यत्वात्। न न नमामि किन्तु नमाम्येव । नवीना स्वेदमलादिरहिता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org