________________
११४
ॐ नमः
चतुर्विंशतिजिनस्तवनम् ।
जिन ! श्रीनाभिजात ! त्वां नतामरनराजित ! | वन्देऽहं हतसंसारसम्भवामलकेवल ! ॥ १ ॥ देव संवरसम्भूते सुमते ! कुमतापह ! | सुसीमाघरसम्भूतपरमानन्द ! पाहि माम् ॥ २ ॥ मयापि पृथिवीजात ! सुयशो भवतीशितः । महसेनभवासङ्ग सुविधे सलया रतिः ॥ ३ ॥
अवचूरिः ।
नता अमरा नराश्च यस्य । विशेष्यपदं व्याख्याय विशेषणपक्षो व्याख्यायते । जिनश्रिया आर्हन्त्यश्रिया इनो नायकस्तस्याऽऽमन्त्रणम् । हेऽभिजात सुकुलीन ! ॥ १ ॥ देव पूज्य ! संवराभिधानात् जन्म यस्य अभिनन्दन इत्यर्थः । कुमतानां कुतीर्थिकनयानां विक्षेपकत्वात् कुमतापह ! सुसीमा राज्ञी धरो राजा ताभ्यां संभूत ! पद्मप्रभ इत्यर्थः । परमः प्रकृष्ट आनन्दः सुखनिस्यन्दो यस्य । पाहि रागादितस्करैर्गृह्यमाणं मां स्तोतारं रक्ष । विशेषणपक्षे तु संवरस्येन्द्रियनिग्रहरूपस्य सम्भूतिरुत्पत्तिर्यस्मात् । शोभनबुद्धे ! सुसीमायामकृत्यकरणनिवारणात्, शोभनमर्यादायामात्मानं परांश्च धारयतीति सुसीमाधरः, सम्भूतः संजातः परमानन्दो येन यस्य वा ॥ २ ॥ मया स्तावकेनाऽपि प्राप्ता, लयेन मनसा ऐकाग्र्येण सहिता रतिः समाधिः, पृथिवी नामदेवी ततो जातः पुत्रत्वेन । हे सुपार्श्व शोभनकीर्ते ! जगति त्वयि रतिरापीति गम्यम् । हे ईशितः 1 महसेननृपसंभव ! असङ्गो निःसङ्गः । विशेषणपक्षे तु पृथिव्यामुपलक्षणत्वात् त्रिभुवनेऽपि जातं शोभनं यशो यस्य तत्संबोधनम् । महसा प्रतापेन इनः सूर्यः । भवे संसारे न सङ्गो वीतरागत्वादास तिर्यस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org