________________
अरिहमुरुमहेलासिद्धिसम्पन्नरागा
रुणमिव गुणगेयं वित्तधेयं धरेयम् ॥ २३ ॥ गिरिभुवि हरिभावे बाहुलीलाविमिन्ना
विरलनिबिडपीडासङ्गमे गाढखिन्नम् । परिभवपरिहारायेव वोढारमके
हरिवरमरिहन्तं हे नरा धत्त चित्ते ॥ २४ ॥ इत्थं स्तोत्रपथं कथञ्चन जिना नीता विनीतात्मना __ वृत्तैः प्राकृतसंस्कृतैः समुदितैस्तैः शौरसेन्या समैः । दधुः श्रीगुरुसोमसुन्दरमुदाखादं प्रसादं जवाद्
येनाऽसौ रसिकेव केवलकला लीलायते मय्यपि ॥२५॥ इति संस्कृत-प्राकृत-शौरसेनी-भाषात्रयसमं चतुर्विंशतिजिनस्तवनम् ।।
महोपाध्यायश्रीरत्नशेखरगणिविरचितम् ॥
पार्श्वम् विश्वेऽपि गरिमास्पदविनोरुमहेलात्वं सिद्धेर्युक्तम् । तस्य सम्पन्नो यो रागस्तेन रजितमिव । गुणैर्गेयम् । चित्ते धेयं धारणाई ततएवाऽहं धरेयमोचित ॥ २३ ॥ शालिक्षेत्रासभायां । प्राग्भवे त्रिपृष्ठवासुदेवत्वे बाहुलीलया यद्विमिन, क्लीबे कान्तत्वात् विदारणं तेन निरन्तरं निबिडा च या पीडा तस्याः संपर्के, गाढखेदाद् यः परिभवस्तदपहरणार्थमिव सिंहवरमङ्के वोढारं, शीलार्थेऽत्र तुन् , अर्थात् वर्धमानम् ॥ २४ ॥ श्रिया गुरुः सोमस्तद्वत् सुन्दराऽतिविशदा या मुत् तस्या आस्वादोऽनुभवो यत्र प्रसादे तं तथा ॥ २५ ॥
॥ इति भाषात्रयसमचतुर्विंशतिजिनस्तवावचूरिः ॥
तो. स. ८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org