SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ११२ तमरिहमिव सेवे वारिवाहं सवारिं किमसम बिसकण्ठीमण्डलीलीढकण्ठम् ॥ २० ॥ जयभुवि विजयन्ते भासुरा भूरिभासा दमिवर ! नमिदेहे के लिगेहे कलासु । किमहिमकिरणाभा भाववन्तं नयन्ति सुदिवसमविरामं चण्डभावं विहाय ॥ २१ ॥ हरिमुरुधरमाणं कम्बुसम्बन्धबन्धु किमु इह बहुमन्ता कम्बुधारी चिरेण । नवनवभवकारावासवारी वरीयो - गवलविमलधामा नेमिनामा ममायम् ॥ २२ ॥ फणिगुरुफणमालालम्बिचूडा महीयोमणिगणकिरणाली सङ्गरङ्गावगाढम् । सुव्रतम्, बलाकाश्रेण्या श्लिष्ट ॥ २० ॥ जयोत्पत्तिस्थाने, दमिनो मुनयः, अत्र षष्ठ्यर्थे सप्तमी, कलास्खित्यत्राऽपि एताः किं रविकान्तयश्चण्डतां त्यक्त्वा सौम्यत्वापन्ना नत्यर्चादौ भावभाजं प्राणिनं निरन्तरं सुदिवसं शोभनदिनं प्रापयन्ति, रविकान्तितुल्याभिर्न मिजिनतनुद्युतिभिर्भाभिर्नित्यं श्रेयोदिनमेव क्रियते इति भावः ॥ २१ ॥ पुन्नपुंस्त्वात् कम्बुशब्दस्य क्लीबत्वम् ततो गुरुशङ्खपाञ्चजन्याभिधानं धरन्तम्, संबन्धेन बान्धवं कृष्णं बहु मन्तेव कम्बुधारी, अङ्के पाञ्चजन्यकम्बुधारित्वबन्धुकृष्णबहुमानार्थमिव स्वयमप्य कम्बुभृदित्युत्प्रेक्षा । अत्र शीलार्थस्तृन् तेन तत्कर्मणि द्वितीया । नवनवभवा एव कारा गुप्तिगृहाणि तत्र वासं वारयतीत्येवंशीलः । अस्त्वित्यध्याहार्यम् । वरतरं नवमहिषवन्निर्मलं धाम वपुःसम्बन्धि यस्य, जिनः ॥ २२ ॥ फणिगुरुर्धरणेन्द्रस्तत् फणमालायामालम्बिनो ये चूडांस महत्तरा मणयः तेषां किरणावां सङ्गेन यो रङ्गो रक्तिमा तेन व्याप्तम् । अर्थात् " Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy