SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ १८ कल्याणस्थितिभाग विमुक्तिकमलाभालस्थलीमण्डनं वीतत्रासतया जितापरमहाबैलोक्यचिन्तामणिः । अर्तित्रातहरः सुरासुरनरश्रेणेः परं देवतं श्रीमान नेमिजिनः श्रियेऽस्तु भवतां सर्वात्मना निर्मलः३ सच्छायस्त्रिजगन्मनोरथकथाविस्तारवैहासिक तन्वन् नन्दनसम्पदो दिविषदां विश्रामभूमिः परा । प्रीणन्नर्थिजनान् फलेन महता पत्रश्रिया मण्डितो भूयाद् भूरिविभूतये भवभृतां श्रीपार्श्वकल्पद्रुमः ॥ ४ ॥ श्रीमत्युग्रकुलार्णवे समभवद् यः शुद्धवर्णैकभूः सर्वः कोऽपि निषेवते प्रतिदिनं यं चाऽखिलश्रीप्रदम् । स श्रीवीरजिनेश्वरस्त्रिजगतीनेत्रोत्सवो दक्षिणा वर्तः शङ्ख इवाद्भुतातुलसुखं पुष्णातु पुण्यात्मनाम् ॥५॥ विश्वोल्लासिमहागतान्तरतमा माहात्म्यलक्ष्मीवृतः प्रोत्सर्पद्गुणसाधवः शिवपदैश्वर्येन्दिरासंयुतः । क्षिप्ताशेषरुजः सदोदयभृतः श्रीतीर्थराजश्रियं गातां नम्रसुरासुरेश्वरनरश्चैकोऽखिलावासताम् ।। ६ ।। इत्थं श्रीपञ्चतीर्थी सदतिशययुता प्रातिहार्यैः परीता श्रेयःश्रीराजधानी सकलजनमनःकानने कामधेनुः । पुष्णातु स्फीतभक्त्या स्तुतिविषयपदं प्रापिता प्राणभाजां सौभाग्यारोग्यभाग्याभ्युदयजयचिदानन्दसम्पद्विलासान् इति श्रीपञ्चतीर्थीस्तवनम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy