SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ श्रीमद्धामसमग्र विग्रह मया चित्रस्तवेनाऽमुना नूतस्त्वं पुरुहूतपूजित ! विभो ! सद्यः प्रसद्यैधि माम् । ख्यातज्ञातकुलावतंस ! सकलत्रैलोक्यक्कॢप्तान्तेरस्फारक्रूरतरज्वरस्मरतरत्संरब्धरक्षारतः ॥ २७ ॥ ( चामरबन्धः ) इति श्रीवीर जिनस्तवनं चित्रमयम् ॥ अथ श्रीपञ्चतीर्थिजिनस्तवनम् । शुक्रुध्यानसुधारसेन निभृतः सर्वार्थसिद्धिं सृजन् दृष्टोऽष्टापदपीठसंस्थिततनुः केशप्रणाशप्रभुः । लोलत्कुन्तलमालिकाच्छलदल श्रेणीभिरभ्यर्चितः श्रेयः कामघटः सतां घटयतु श्रीमान् युगादीश्वरः ॥ १ ॥ विश्वाभीप्सितशस्तवस्तुविपणिर्यस्याः पदोपासना क्षीरं मोक्षसुखं मनोभवमुखा घासश्च दोषावली । वन्द्या सर्व सुपर्ववर्णगुरुभिः सा कामधेनुः सतां मूर्तिः शान्तिजिने शितुर्वितनुतां पुण्यप्रसूतिः श्रियम् ॥२॥ टिप्पनकम् । १ जनितोऽन्तरङ्गस्फारक्रूरतरो ज्वरः सन्तापो येन स चासौ स्मरश्च तस्य तरो वलं तस्य संरब्धः संरम्भः तस्माद्रक्षा त्राणं तत्र रतः ॥ २७ ॥ ॥ इति श्रीवीरस्तवावचूरिः ॥ स्तो. स. ७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy