SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ दानादिप्रकरणम् अन्नादिदानेऽथ भवेदवश्यं प्रारम्भतः प्राणिगणोपमर्दः । तस्मान्निषिद्धं ननु नेति युक्तं यूकाभयान्नो परिधानहानम् ॥२९॥ पापाय हिंसेति निवारणीया दानं तु धर्माय ततो विधेयम् । दुष्टा दशानामुरगादिदष्टा येवाङ्गुलो [६३-१] सा खलु कर्तनीया ॥३०॥ कृष्यादि कृर्वन्ति कुटुम्बहेतोः पापानि चान्यानि समाचरन्ति । देवादिपूजादि विवर्जयन्ति हिंसां भणित्वेति कथं न मूढाः ॥३१॥ सन्त्यज्य पूज्यं जननीजनादि ये दुष्टचेटीमिह चेष्टयन्ति । तेषां भवन्तोऽपि भवन्ति तुल्या सक्ता गृहे देवगुरुंस्त्यजन्तः ॥३२॥ अथापि नारम्भवतोऽपि युक्तं प्रारम्भणं धर्मनिमित्तमत्र । द्रव्यस्तवो हन्त गतोऽस्तमेवं ध्वस्तः समस्तो गृहमेधिधर्मः ॥३३॥ द्रव्यस्तवप्रधानो धर्मो गृहमेधिनां यतोऽभिदधे । द्रव्यस्तवस्य विरहे भवत्यभावस्ततस्तस्य ॥३४॥ ६३-२] युक्त्यागमाननुगतं सङ्गतमुपगन्तुमीदृशं न सताम् । द्रव्यस्तवभावस्तवरूपो धर्मो जिनैरुक्तः ॥३५॥ जन्माभिषेकादिमहं जिनानां व्याख्यानधात्रीरचनां च चित्राम् । कुर्वन्ति सर्वे त्रिदशाधिपाचा नन्दीश्वरादौ महिमानमुच्चैः ॥३६॥ ____Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002612
Book TitleDanadiprakarana
Original Sutra AuthorSuracharya
AuthorAmrutlal Bhojak, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages78
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy