SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ श्रीमत्सूराचार्यविरचितं अष्टापदादी भरतादिभूपै वेश्मानि बिम्बानि च कारितानि । दशार्णभद्रप्रमुखैर्नृमुख्यैः पूजा जिनानां विहिता हिताश्च ॥३७॥ साधर्मिकेभ्यो भरतेन दत्तं भोज्यादि भक्त्या विविध विधाय । मोक्षाय निःशेषमभूदमीषा मेतज्जिनोक्तं क्रियमाणमेव ॥३८।। ग्रामं क्षेत्रं वाटि[६४-१]कां वापिकाढ्यां गेहं हटें देवदेवाय भक्त्या । दत्त्वा केचित् पालयित्वा तथान्ये धन्या सिद्धाः साधुसिद्धान्तसिद्धाः ॥३०॥ आरम्भन्ते सर्वकार्याण्यनार्या भार्यादीनां सर्वथा सर्वदा ये । देवादीनां नैव दीनास्तु मन्ये धर्मे द्वेषो निश्चितः कश्चिदेषाम् ।।४०॥ आरम्भश्चेत् पातकार्थेऽपि कृत्यो ___ धर्मायासौ संविधेयः सुधाभिः । चौराणां चेद्धन्त वोढव्यमास्ते बादं व्यूढं तद्वरं स्वामिनो हि ॥४१॥ पापारम्भविवर्जनं गुरुयशोराशेः शुभस्यार्जनं गेहाधाग्रह निग्र[६४-२]हेण मनसो निःसङ्गता सङ्गतिः । कल्याणाभिनिवेशिता तनुमतां सन्मार्गसन्दर्शनं धर्मारम्भवतां भवन्ति भविनामित्यादयः सद्गुणाः ॥४२॥ स्थानोपयोगात् साफल्यं भवस्य विभवस्य च । परः परोपकारः स्याद् धर्मतीर्थप्रवर्तनात् ॥४३॥ संसारसागरे घोरे देहभाजां निमज्जताम् । तीर्थ श्रीतीर्थनाथस्य यानपात्रमनुत्तमम् ॥४४॥ ____Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002612
Book TitleDanadiprakarana
Original Sutra AuthorSuracharya
AuthorAmrutlal Bhojak, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages78
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy