SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ श्रीमत्सूराचार्यविरचितम् नाप्युत्तरारम्भभवोऽपि दोषो दातुर्भवेन्निश्चितमत्र कश्चित् । परोपकाराय दयापरस्य । प्रवर्तमानस्य शुभाशयस्य ॥१९॥ अन्यथा हि महादानं महारम्भनिबन्धनम् । न दधु/धना धन्या विकीर्यानिधनं धनम् ॥२०॥ एष्टव्यमित्थमेवेदं गुर्वादेरपि नान्यथा । अन्नादि देयं व्याध्यादेः कदाचित् स्याद्विधायकम् ॥२१॥ प्रत्तं प्रबन्धेन गिरा गुरूणां साधर्मिकेभ्यो भरतेन दानम् । अन्यैश्च धन्यैर्धनसार्थवाह मुख्यैः प्रभूतैः समयप्रसिद्धैः ॥२२॥ कल्याणहेतुस्त[६२-१]दभूदमीषां नानर्थसम्पादि निरर्थकं वा । तीर्थाधिनाथप्रथमान्नदानं __ दातुः शिवस्य प्रथितं निदानम् ॥२३॥ मुख्यं च धर्मस्य चतुर्विधस्य प्रोक्तं जिनेन्द्रः समये समस्ते । तीर्थान्तरीयैः कथितं विशिष्ट दान जनानां नितरामभीष्टम् ॥२४॥ बाह्यं नयं च बाह्यानां कारणं दानवारणे । अमोषां दृश्यते नूनं क्लिष्टादृष्टं भविष्यति ॥२५॥ स्वयं च सर्व गृह्णन्ति गृद्धा गृध्रा इवाऽऽमिषम् । कयापि भङ्गया निर्भाग्या भङ्गमन्यस्य कुर्वते ॥२६॥ परो व्यामोह्यते येन गम्यते दुर्गतिः [६२-२] स्वयं । क्रियते शासनोच्छेदो धिगिदृक् कुल्ककौशलम् ॥२७॥ विज्ञप्तिः सा भवतु भविनां सा च वाचां प्रवृत्ति रचेतोवृत्तिः कलिलविकला सैव सा कायशक्तिः । आज्ञा सैव प्रभवतु यया शक्यते संविधातुं मोहापोहः स्वपरमनसोः शासनाभ्युन्नतिश्च ॥२८॥ ___Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002612
Book TitleDanadiprakarana
Original Sutra AuthorSuracharya
AuthorAmrutlal Bhojak, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages78
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy