SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ३८ श्रीमत्सूराचार्यविरचितम् हरिहरप्रमुखं ससुरासुरं जितवतः स्वभुजैर्भुवनत्रयम् । विजयिनं मदनस्य मदच्छिदं नमति कः सुमतिर्न मुनीश्वरम् ॥६९॥ न वीतरागादपरोऽस्ति देवो न ब्रह्मचर्यादपरं तपोस्ति । नाभीतिदानात् परमस्ति दानं चारित्रिणो नापरमस्ति पात्रम् ॥७० || परिग्रह महाग्रहैः परिगृहीतधीविग्रहा विदन्ति न गुणागुणौ[५२ - १] न गुरुदेवते मन्वते । अकृत्यमपि कुर्वते परिहरन्ति कृत्यं नरा भ्रमन्तनि शेरते न च रतिं लभन्ते क्वचित् ॥ ७१ ॥ निदानं दैन्यस्य प्रचुरतरचिन्ताहुतभुजः प्रभूतैनोराशिः शमतरुसमुच्छेदपरशुः । परं क्लेशस्थानं परिभवपदं किञ्चिदपरं विपत्तेरुत्पत्तिर्भवति भविनां सङ्ग्रहरसः ॥७२॥ रचयति प्रचुरं रुचिरं चिरं चटु पटु प्रकटं कटुकं वचः । प्रसहते हसति प्रहतो नरो नरपतेरिति लोभविजृम्भितम् । ७३॥ प्रनि (णि)न्द्यः सद्विद्यो विदितपरमार्थोऽपि पुरुषः [५२-२] पुरस्तात् पापानां परुषवचनानां क्षितिभुजाम् । विभो देवेत्याचं वचनमतिदीनं प्रतिदिनं वदत्युच्चैर्यत्तद्विलसति खलो लोभहतकः ॥ ७४ ॥ विश्व येन वशीकृतं कृतधियोऽकृत्ये कृताः सोद्यमा भाण्डाद्या विकृतो: कृतीर्नटभटाश्चित्राकृतीः कारिताः । तं निर्जित्य परिग्रहग्रहमहो व्यानादिके तद्धना ये धन्यस्य (?) तपोधना गुणधना धामानि तेऽध्यासते ॥७५॥ इष्टं द्वेष्टि गुणाधिकं न गणयेन्मान्यं न वा मन्यते वन्धं निन्दति नाभिनन्दति जनो येषां कृते[ ५३ - १] नन्दनम् । स्वाधीनानि धनानि तानि सुधियः सन्त्यज्य ये तस्थिरे मुक्त्यर्थं मुनिपुङ्गवाः सुकृतिनां गच्छन्ति ते मन्दिरे ॥ ७६ ॥ १ स्वार्थिककप्रत्ययान्तमिदं रूपम् । भ्रमन्ति त्यर्थः ॥ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002612
Book TitleDanadiprakarana
Original Sutra AuthorSuracharya
AuthorAmrutlal Bhojak, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages78
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy