SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ २० श्रीमत्सूराचार्यविरचितं आयान्या (?) यतते [२६ - २ ] यतो यतिजनाः कुर्वन्ति सदेशनां श्रुत्वा धर्मपरा भवन्ति भविनो भव्या भवाम्भोनिधिम् । अक्लेशेन तरन्ति दुस्तरतरं तस्मादिदं कुर्वता कल्याणं सकलं जनस्य जनितं सत्त्वेन सत्त्वाप्तिना ||२७| मर्त्यमस्तकमाणिक्यं क्षोणीमण्डलमण्डनम् । कोsपि कारयते पुण्यः कुलकेतुर्निकेतनम् ॥ २८ ॥ तेन कृत्यं कृतं सर्वं दुष्कृतं च निराकृतम् । कृतिना कारितं येन केतनं पुण्यकेतनम् ॥ २९ ॥ रोचिष्णुरत्नचयनिर्मि [२७ - १] तनिर्मलाङ्ग स्फाशं स्फुटस्फुरदुरुस्फुटिकां सुरूपाम् । श्रीराजपट्टघटितां प्रबलप्रवालां कार्तस्वरप्रवरभास्वरकान्तकायाम् ॥३०॥ सद्रीतिका - रजत-दन्तमयीं महिष्ठां श्रेष्ठां गरिष्ठशुभकाष्ठकृतप्रतिष्ठाम् । ये मृण्मयीमपि तनिष्ठितनुं स्वशक्त्या निर्मापयन्ति विधिना प्रतिमां जिनस्य ॥३१॥ वियोगदौर्भाग्यदरिद्रताव्यथां पराभवं दुस्सहदुःस्थताकथाम् । विदन्ति वार्तामपि तेन दुर्गते रभीष्टपुण्या इव पापसङ्गतेः ॥३२॥ सत्यङ्कारोर्पितः स्वर्गे मर्त्यशर्म वशीकृतम् । शासनं लेखितं मोक्षे पुंसा कारयता जिनम् ||३३ ॥ कल्याणसम्पदखिलाऽपि वशीकृतोच्चै - रुच्चाटितं स्वमनसो ननु वैमन[ २७- २ ] स्यम् । विद्वेषितोऽनभिमता हित सम्प्रयोगः संस्तम्भितोऽतिशुभ वल्लभविप्रयोगः ॥ ३४ ॥ तन्नास्ति यन्न विहितं स्वहितं प्रशस्तं तन्नास्ति यन्न दुरितं त्वरितं निरस्तम् । मन संविदधता प्रतिमाप्रतिष्ठा - मात्मा नरोत्तमपदे गमितप्रतिष्ठाम् ||३५| Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002612
Book TitleDanadiprakarana
Original Sutra AuthorSuracharya
AuthorAmrutlal Bhojak, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages78
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy