SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ दानादिप्रकरणम् हर्ये रम्ये तीर्थनाथस्य बिम्बे हाध्ये सो पुस्तके च प्रशस्ते । सप्तक्षेत्र्यां मोक्षलक्ष्मी प्रसूते सूप्तं भव्यैः सत्तमं वित्त[२५-२]बीजम् ॥१७॥ मदनसूदनसुन्दरमन्दिरं गरिमनिर्जितलज्जितमन्दरम् । भवति कारयतां करवर्तिनी प्रणयिनीव विमानवरावली ॥१८॥ ये कारयन्ति सदनं भवसूदनस्य ते भासुरं सुरविमानममानमाप्य । हारा इवातिकमनीयकुचोन्नतेषु वक्षस्थलेषु विलसन्ति विलासिनीनाम् ॥१९॥ सुन्दरं मन्दरोदारं मन्दिरं मदनद्विषः । कारयित्वाऽधिरोहन्ति सालम्बा लीलया दिवम् ॥२०॥ भग्नाद्रिशृङ्गशृङ्गारमगारं त्रिजगद्गुरोः । निर्माय निर्मलं धाम शिवं धावन्ति धार्मिकाः ॥२१॥ ताणे पार्ण भक्तिपूर्णाः कुटीरं ___ शक्त्या जैनं ये जनाः कारयन्ते । मुख्यं सौख्यं तेऽपि मामराणां भूयो भुक्त्वा मोक्षलक्ष्मी लभन्ते ।।२२॥ अधममध्यमसत्तम - - - [२६-१] सदनपुस्तकसुप्रतिमादितः । भवति येन फलं न भिदेलिमं किमुत सत्परिणामविशेषतः ॥२३॥ भो भो भव्या विभाव्येदं यतध्वं भावशुद्धये । सर्वकामदुघा श्लाघ्या भावशुद्धिः शुभात्मनाम् ॥२४॥ धर्मसत्रं गुणक्षेत्रं प्राणित्राणामृतप्रपा । श्रीजिनायतनं नाम समाम्नातं मनीषिभिः ॥२५॥ स्वर्गापवर्गसोपानं दुर्गतिद्वाररोधनम् । मन्दिरं मदनारातेरामनन्ति मनस्विनः ॥२६॥ ____Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002612
Book TitleDanadiprakarana
Original Sutra AuthorSuracharya
AuthorAmrutlal Bhojak, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages78
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy