SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ४४ श्रीपल्लीपालवंशीयधनपालविरचितः रङ्गाङ्गणं प्रणम्याथ चित्रलेखामुपायतीम् । आहूय स्वासनान्ते मां खेचरेशो न्यवेशयत् ॥८२॥ वक्त्रं मम पानम्रमुन्नमय्य जगाद च । वत्से' ! त्वमीदृशं नाट्यममनः क्व मनोहरम् ॥८३॥ क्षोणिदत्तेक्षणा तस्य निर्बन्धादभ्यधामहम् । अभ्यासस्तात ! नाभ्यासे गुरोरेकस्य कस्यचित् ॥८४॥ परं मयि समक्रामच्चातुरी मातुरीदृशी । वत्से ! कुतस्तयाऽभ्यस्ता तात ! खेचरलोकतः ॥८५॥ वत्से ! नाम सवित्री ते पवित्रयति किं वद । तात ! गन्धर्वदत्तेति श्रुत्वेति सचिवोऽब्रवीत् ॥८६॥ देव ! कच्चिन्न सा पुत्री देवस्यैव भविष्यति । नाम्ना हि जन्यते नाट्यसक्रमेण च मे भ्रमः ।।८७॥ नृपस्तदा मदाकारं विभाव्य पुनरभ्यधात् । कीदृङ्मानवयोवर्णाकारैः सा जननी तव ॥८८॥ तात ! नातिलघुर्नातिदीर्घा सा वयसा पुनः । तागया.मयि प्राच्यगर्भभाजि विभाव्यते ॥८९॥ वर्णेन स्वर्णसङ्काशा रूपेण तु भवादृशी । वत्से ! को जनकस्तस्यास्तात ! कश्चन तापसः ॥९॥ आर्य ! भग्नोऽन्तरालेऽपि सुतासत्तामनोरथः । देव ! व्यथिष्टा मा नेयं तावद् वेत्ति न तत्त्वतः ॥९॥ वत्से ! स तापसो दृष्टस्तात ! लोकान्मया श्रुतः । वत्से ! किं वक्ति सा पृष्टा तात ! रोदिति केवलम् ॥१२॥ आर्य ! तस्या अनाख्याने निदानं रोदने च किम् । देव ! स्वाभिजनाख्यानव्रीडा बन्धुस्मृतिस्तथा ॥१३॥ वत्से ! नाख्याति चेत् किञ्चित् तत् कथं विदितं त्वया । तस्या नाट्यकलालोको लोकाद् वैद्याधरादिति ॥९४॥ तात ! विज्ञपयाम्येतदितोऽतिक्रान्तवत्सरे । मुनिर्महायशाः काञ्च्यामागमद् व्रतिभिर्वृतः ॥९५॥ १ वात्स । २ श्चि । ३ । । ४ सो । ५ ग् । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002611
Book TitleTilakmanjarisara
Original Sutra AuthorPallipal Dhanpal
AuthorN M Kansara
PublisherL D Indology Ahmedabad
Publication Year1969
Total Pages146
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy