SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरीसारः। पौरा पुराद् बहिस्तस्य वरिवस्याकृते ययुः । माता च तातानुज्ञाताऽगमत् तत्र मयान्विता ॥९६॥ तं त्रिकालविदं नत्वा प्रस्तावेऽपृच्छदुत्सुका । भगवन्नस्मि विख्याते जाता विद्याधरान्वये ॥९७॥ वियुक्ता शिशुरेवाथ बन्धुभिः पुरविप्लवे । तदादिश कदाऽप्येतैोगो मे भविता न वा ॥९८॥ वत्से ! तेन किमादिष्टं तात ! भाव्यचिरादिति । स कदेति पुनः पृष्टः प्रोचे मन्न्यस्तलोचनः ॥९९॥ यदा तवेदं कल्याणी पुत्रिकेत्यादि किञ्चन । वत्सेऽभिधत्से किं नातः तात ! नो वेदम्यतः परम् ॥१०॥ देव ! ज्ञायत एवैतद् यदा पुत्रीयमाप्स्यति । करग्रहोत्सवं पत्युस्तदा ते ज्ञातिसङ्गमः ॥१०१॥ वत्से ! किमेतन्नो पृष्टमैज्ञाते सङ्गमः कथम् । पृष्टमुक्तं च तेनाथ पिता ते ज्ञास्यति स्वयम् ॥१०२॥ ततस्त्वया सहैनां च नीत्वा निजनिकेतनम् । विधास्यति विधातव्यमस्याः सर्वमसाविति ॥१०३॥ आर्य ! सन्देहमद्यापि मनः स्पृशति तं यदि । गत्वा काञ्चीपुरे मैषा चित्रलेखाऽपनेष्यति ॥१०४॥ इत्थं संलपतः सार्द्ध मया च सचिवेन च । तस्येष्टसिद्धिशंसीव शङ्खः प्राभातिकोऽध्वनत् ॥१०५॥ आदिश्यैकं नरं कञ्चित् कणे मन्न्यस्तलोचनः । जगामाथ विमानस्थः स नभोगैः समं नमः ॥१०६॥ १ न्या । २ After this, one speech by the minister is dropped as also the initial sentence of the reply by Vicitravirya. ३ मे । * This is not the case in the original prose work where Vicitravirya Orders Tapanavega to take Malayasundary and other girls round to show the place. ___Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002611
Book TitleTilakmanjarisara
Original Sutra AuthorPallipal Dhanpal
AuthorN M Kansara
PublisherL D Indology Ahmedabad
Publication Year1969
Total Pages146
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy