SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ५] तिलकमञ्जरीसारः । मन्दमन्दमथोत्थाय विहाय सहजं भयम् । आगमं नरनारीभिर्मण्डितं मणिमण्डपम् ॥६८॥ तत्रार्थे ! कः प्रदेशोऽयं केडमी रम्यौजसो नराः । मध्ये चैषां नृपः कोऽयमित्येकामालपं स्त्रियम् ॥ ६९ ॥ सा चाख्यत् पञ्चशैलाख्यः पुत्रि ! द्वीपोऽयमर्णवे । वैतादयवासिनः प्रौढविद्याविद्याधरा अमी ॥ ७० ॥ विचित्रवीर्यनामाऽयं विख्यातः खेचरेश्वरः । अत्रान्तरे नरेशं तं वेत्रपाणिर्व्यजिज्ञपत् ॥ ७१ ॥ देव ! प्रतापशीलस्य कुशस्थलपतेरियम् । कन्या कान्तिजितश्यामाकुसुमा कुसुमावली ॥७२॥ हेपयन्ती रुचा विद्याधरीर्मलयसुन्दरी । सेयं यस्याः पिता काञ्चीपतिः कुसुमशेखरः ॥७३॥ गौराङ्गी मगधेशस्य सूरकेतोरियं सुता । शकुन्तला [ कला ] धामविधोर्मूर्त्तिरिवापरा ॥ ७४॥ असौ सौराष्ट्रराजस्य बन्धुमत्यभिधा सुता । श्यामाङ्गी मदलेखेव मत्तवारणमाश्रिता ॥ ७५ ॥ एताश्च वेदिं नेदिष्टामारूढा प्रौढकान्तयः । कन्याः कलिङ्गवङ्गाङ्गकोशलादिमहीभृताम् ॥७६॥ लीलावती तथा चन्द्रलेखा मालतिका तथा । अनङ्गलेखा चेत्यादिनामभिः ख्यातिमागताः ॥७७॥ अथ ताः क्षितिभृद् वीक्ष्यादिक्षकां विलासिनीम् । विचित्रैर्मण्डनैरे ताश्चित्रलेखे ! प्रसाधय ॥ ७८ ॥ प्रसादय च वाक्यैः स्वैर्यथा नृत्तं वितन्वते । यात्रायामत्र वित्रासमपहायापहारजम् ॥७९॥ तया कृते यथादिष्टे विष्टपैकगुरोरथ । स्नात्रं भक्तिपरैः पुंभिः कुम्भैरारम्भि काञ्चनैः ॥८०॥ स्नात्रान्ते समुपक्रान्ते सङ्गीते ननृतुः क्रमात् । कन्यास्ता अथ नृत्ताऽहं साकं प्रेक्षकमानसैः ॥८१॥ Jain Education International 2010_05 For Private & Personal Use Only ४३ www.jainelibrary.org
SR No.002611
Book TitleTilakmanjarisara
Original Sutra AuthorPallipal Dhanpal
AuthorN M Kansara
PublisherL D Indology Ahmedabad
Publication Year1969
Total Pages146
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy