________________
२]
तिलकमञ्जरीसारः
वन्द्यमानव्रणोद्वान्तरक्तबिन्दूत्करं भटैः । दृष्टशौर्यगुणाकृष्टचेताश्च तमुपागतम् ॥८४॥ पश्यंस्तादृगवस्थं तं स्थित्वा खिन्नमना मनाक् । चामरग्राहिणीं दृष्ट्वा पप्रच्छासौ सचेतनाम् ॥ ८५ ॥ भद्रे ! कोऽयं सुतः कस्य किमर्थं चामुना कृतम् । ऊढक्षात्रनयेनापि छयुद्धमियन्निशि ॥ ८६ ॥ प्रमृज्याश्रूणि साऽवोचत् किमस्याच निवेद्यते । तथापि कथयाम्येषा मन्दभाग्या तवाग्रहात् ||८७|| अयं हि सिंहलद्वीपे चन्द्रकेतोर्महीभृतः । पुत्रः समरकेतुः प्राक् गतोऽभूद् द्वीपभूभुजाम् ||८८ || जयाय कटके तस्मादकस्मात् पितुराज्ञया । राज्ञः काञ्चीपतेः कर्तुं साहायकमिहागमत् ॥ ८९॥ ततोsधदिनमुद्याने कामायतनमास्थितः । यात्रायातपुरीनारीलोकमालोकयन्नयम् ॥ ९० ॥ केनापि हेतुना सायमुन्मना मदनालये । शयिष्येऽहमिहैवेति विससर्ज परिच्छदम् ॥९१॥ आगत्याथ निशीथेऽसौ वाहिनीं समनीनहत् । नायं क्रमो नयस्येति वार्यमाणोऽपि मन्त्रिभिः ॥९२॥ अनाप्तेन स्पशेनेव दैवेनाकृष्य संप्रति ।
इमां भुवमवस्थां च कुमारोऽयमनीयत ॥९३॥ एवं वदन्त्यामेवास्यां सिंहलेन्द्रप्रजामिव । स्फुरद्बालारुणज्योति ज्योतिरालीममीलयत् ॥९४॥ तर्मित्रेवैरिविजयाभिलाषद्रवखविते ।
तेजस्युज्जृम्भिते देव ! प्रताप इव भापतेः ॥ ९५ ॥ कुमारः स जजागार वज्रायुध ! किमायुधम् । न गृह्णातीति सञ्जल्पन् पूर्वसङ्कल्पसम्भ्रमात् ॥९६॥ अस्मदन्तः प्रविष्टं च किञ्चिदुन्मीलितेक्षणः । क्षीणतेजा ददर्श स्वं दर्शेन्दुरिव सूर्यगम् ॥ ९७॥
१ इयां । २ । ३ ह्रा |
Jain Education International 2010_05
For Private & Personal Use Only
१५
www.jainelibrary.org