SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ v थोपल्ली पालवंशीयधनपालविरचितः नृत्यदुत्तालवेतालः शिवाफेत्कारडामरः । हस्तित्रासितवाहौघः सङ्घस्तुमुलोऽजनि ॥७०॥ उत्थिते रजसि क्षोभादज्ञातस्वपरान्तरे । नृपेषु क्षीयमाणेषु पादातेषु पतत्सु च ॥ ७१ ॥ रात्रौ त्रिभागशेषायां कोऽपि भूपालदारकः । अस्मद्व्यूहे ज्वलन्मन्युरभिमन्युरिवापतत् ॥ ७२ ॥ तमुग्रं प्रतिजग्राह पृषत्कैः पृतनापतिः । पृतनाषाडि ग्रीष्मं महोष्माणं घनाम्बुभिः ॥७३॥ क्व स वज्रायुधो वन्नायुध इत्युद्धतं ब्रुवन् । दत्तशब्दे बलाधीशे शर द्वैतं व्यधत्त सः ॥ ७४ ॥ इत्थं रथस्थयोः * पार्थकर्णयोरिव धन्विनोः । शतशः समजायेतां तयोर्जय-पराजयौ ॥७५॥ दण्डाधिपधनुर्दण्डच्छेदमेदुरपौरुषे । रिपौ खिन्नः क्षणादेव देवादेशं तमस्मरम् ॥७६॥ अनिच्छतश्च मूभर्त्तुरङ्गुलीयकमङ्गुलौ । कृपाणग्रहणव्यग्रकरस्यालक्ष्यमक्षिपम् ||७७ || समीपदीपिका तेजःपुञ्जमञ्जरितद्युतिः । निद्रामुन्निद्रयामास विश्ववैरिभटेषु तत् ॥७८॥ अथाकृष्टक चानीव नेमुर्मूर्द्धानि धन्विनाम् । मदमग्नामिवोद्धर्तुं शेकुर्नाधोरणाः सृणिम् ॥७९॥ पत्तीनां जघने पेतुः करा: क्रष्टुमिव रोम् । निःश्वासानमुचन् वाह प्रेरणायेव सादिनः || ८० ॥ सूतानाममिलद् देवीदर्शनाप्तमदेव ह । निद्रावेशवादेवं विह्वले द्विषतां बले ॥८१॥ राजपुत्रोऽपि स क्षत्रम्मदुन्मुक्तकार्मुकः । आकृष्टासिद्रुतं निद्रावेशादथ रथेऽपतत् ॥८२॥ तद्वधार्थमथ क्रोधादधावन् निजसैनिकाः । देवाज्ञया च सेनानीरु बाहुस्तानवारयत् ॥ ८३ ॥ & १ म । २ यो । ३ सः । ४ शृ । ५ स्वा । ६ ग् । Jain Education International 2010_05 For Private & Personal Use Only [ प्र० www.jainelibrary.org
SR No.002611
Book TitleTilakmanjarisara
Original Sutra AuthorPallipal Dhanpal
AuthorN M Kansara
PublisherL D Indology Ahmedabad
Publication Year1969
Total Pages146
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy