________________
तिलकमञ्जरोसारः । अथाहतमित्तूर्यमन्योऽन्यकृततर्जनम् । उन्मुखाधोमुखक्षिप्तपत्रिच्छन्ननभस्तलम् ॥५६॥ यन्त्रगोलकनिष्पिष्टसादित्रस्ततुरङ्गमम् । अग्नितैलच्छटादह्यमानकूर्चजनाकुलम् ॥५७॥ द्विपाहतकपाटोग्रध्वानानुप्रहितोपलम् । स्फुरच्छन्ननरवातखातप्राकारभूतलम् ॥५८॥ खण्डीघटद्भटस्कन्धमज्जद्भल्लभयङ्करम् । वप्रस्थै रिपुभिः सार्धं तस्य युद्धमभून्महत् ॥५९॥ एवं च देव ! तो काश्चीरक्षणग्रहणोद्यतौ । गाढं नवोढदम्पत्योः करावित्र चिरं स्थितौ ॥६०॥ एकदा तु मधौ कामत्रयोदश्यां बृहन्निशि । स्वावासं राजके याते संवृतास्वापणालिषु ॥११॥ स्फोटितेभकटच्छिद्रः प्रोत्साहितमहाभटः । अकस्मात् कटकेऽस्माकमभूत् कलकलो महान् ॥६२॥ युग्गम् । श्रुत्वा च जातावस्कन्दपातशङ्कश्चमपतिः । आत्तासिफलको राजकुलाज्झटिति निर्ययौ ॥६३॥ अथोत्पर्याणवाजिस्थावायान्तौ वर्मितोरसौ । दृष्ट्वाऽश्ववारौ पप्रच्छ क्षोभः किमयमित्यसौ ॥१४॥ नत्वा तावूचतुः स्वामिन्नुत्तराशाप्रतोलितः । शत्रुसैन्यं विनिर्यातमायातं विद्धि चाधुना ॥६५॥ तन्निशम्याथ सेनानी रथमारुह्य सायुधम् । रणक्षमां क्षमां सज्जसैनिकानुगतो ययौ ॥६६॥ सैन्ये च रचितव्यूहावर्ते मुखरिताम्बरः । पपातारात्यवस्कन्दः सरित्पूर इवाणवे ॥६॥ तं च प्रतीसुरच्छिद्रविशिखासारवर्षिणम् । धावित्वाऽभिमुखादग्रानीकं स्वकनृपाः शरैः ॥६८॥ परस्परवधाबद्धकक्षयोश्च तयोः क्षणात् ।
स्वर्गस्त्रीमृग्यमाणेष्टवरो रक्तापगाऽऽविलः ॥६९॥ १ न्म। २ स्पि । ३ रो। ४ ता । ५ यै । ६ प्य ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org