________________
१२
श्री पल्ली पालवंशोधनपालविरचितः
आस्ते विजयवेगाख्यः संप्राप्तो दक्षिणापथात् । वज्रायुधचमूभर्तुः प्रधानपुरुषो बहिः ॥४२॥ तदादेशात् प्रधानं तमथ प्रावेशयद् द्रुतम् । अर्पितोपायनः सोऽपि नत्वा नृपमुपाविशत् ॥४३॥ तं च पप्रच्छ सेनान्यः कुशलं कोशलेश्वरः । स प्राह कुशलं देव ! युष्मत्पादप्रसादतः ॥४४॥ मद्वाचा वक्ति सेनानीः प्रणामं स्पृष्टकुट्टिमम् । भूपा भीमादयोऽप्यंहिपद्मं शेखरयन्ति वः || ४५॥ पुनर्जगाद देवेन पुरा बालारुणाभिधम् । यदङ्गुलीयकं प्रैषि सेनान्या तदियच्चिरम् ॥४६॥ धृतं पार्श्वेऽधुना शत्रून् वशीकृत्य ममार्पितम् । उपनीतं मयाऽप्यद्य रत्नाध्यक्ष महोदधेः ॥४७॥ युग्मम् | ससम्भ्रमोऽथ भूपालस्तमालपदहो ! वद । रणे तेन कृतः कश्चिदुपकारश्चमूपतेः ॥४८॥ सोsपि विज्ञापयामास देव ! तेन स कश्चन । कृतो यं न करोत्यन्यः श्रूयतां कथयामि तत् ॥४९॥ परुद्वर्षस्य वर्षान्ते कुण्डिनाद् दण्डनायकः । काञ्चीं प्रत्यचलज्जेतुं नृपं कुसुमशेखरम् ॥५०॥ सोऽपि स्वल्पबचत्वेन चतुरङ्गरणाक्षमः । चकार दुर्गसंस्कारमारब्धभटसंग्रहः ॥ ५१ ॥ अन्वहं च पुरं काचीं दूषिताध्वजलाशयाम् । प्रज्वालितबहिः कक्षामात्तधान्यतृणेन्धनाम् ॥५२॥ उदक्तवा पिकापैङ्कां निषिद्धानाप्तसञ्चराम् । चाराख्यातरिपूदन्तां यन्त्रदन्तुरगोसम् ॥ ५३ ॥ आहूतासन्नभूपालरुद्धाट्टालक कुट्टिमाम् ।
योधाभिपालितोत्तुंङ्गप्राकारामकरोत् ततः ॥५४॥ कुलकम् ।
रुरोध क्रोधदीप्तस्तां सेनाधीशः स्वसैनिकैः ।
भक्तः प्रभौ नवातङ्कां लङ्कामिव हरीश्वरः ||५५॥
१ उद्गतिं । २ ची । ३ । ४ मा ५ लि । ६ मा । ७
त
Jain Education International 2010_05
For Private & Personal Use Only
1
प्र० ]
www.jainelibrary.org