________________
२]
तिलकमञ्जरोसारः ।
अथासन्नऋतुस्नाना गर्भं भूपस्य वल्लभा । बभार भास्वरं तेजः शरद्भानोस्तनूरिव ॥२८॥ क्रमेणोपचिते गर्भे प्रीतिं साऽधत्त सङ्गरे । कुलादिक्रीडने दाने तथा दिव्यकथाश्रुतौ ॥ २९ ॥
अथ पुण्यदिने दीपाञ्जयन्तं निजतेजसा । जयन्तमिव पौलोमी सा तनूजमजीजनत् ॥३०॥ कृत्वा दारिद्र्यविच्छेदं पुत्रजन्मनिवेदिनाम् । प्रापाथ सज्ज मङ्गल्यं भूपतिः सूतिकागृहम् ॥३१॥ तत्र छत्राब्जचक्रादिचिह्नसूचितसम्पदम् । वा सुतमसौ हृष्टः कारागृहममोचयत् ॥३२॥ षष्ठीजागरणे जाते प्राप्तेऽथ दशमे दिने । अर्चा विधाप्य चैत्येषु सम्मान्य च गुरुव्रजम् ॥३३॥ इन्द्रवाहन मद्राक्षं स्वप्नेऽहमिति चिन्तयन् । हरिवाहननामानं तं चकार धराधिपः || ३४ ॥ युग्मम् । तस्योपचर्यमाणस्य पञ्चधात्रीभिरन्वहम् । क्रीडतः शिशुभिः सार्धं दशार्द्धं शरदां ययौ || ३५ ॥ कुमारस्य क्रमात् तस्यावयवेषु दिने दिने । वर्द्धमानेष्ववर्द्धन्त स्पर्द्धयेवाधिकं गुणाः ॥ ३६ ॥ षष्ठेऽथ हायने स्पष्टवर्णीभूतवचःक्रमम् । कृत्वाऽर्चा भूपतिर्विद्यागुरुभ्यस्तमुपानयत् ॥ ३७॥ निबिडप्रतिभानावा तीर्णविद्या महार्णवम् । षोडेशे हायने सूनुमानिनाय निजालयम् ||३८|| तदर्थमथ पृथ्वीभृद् वाजिशालाविराजितम् । कुमारगृहमुत्तुङ्ग पुराद् बहिरकारयत् ॥३९॥ युवराजपदं चास्मै दित्सुः साहायिकाय सः । कञ्चित् तुल्यवयः शौर्यमन्वियेष नृपात्मजम् ॥४०॥ अथास्थानस्थितं सूनुसेव्यमानपदाम्बुजम् । प्राञ्जलिस्तं प्रतीहारी प्रविश्येति व्यजिज्ञपत् ॥४१॥
१ सो । २ । ३ डाश । ४ तं । ५ स्तनु ।
Jain Education International 2010_05
For Private & Personal Use Only
११
www.jainelibrary.org