________________
श्रीपल्लीपालवंशीयधनपालविरचितः
मुक्त्वा विशेषनेपथ्यमेष प्रक्षालितक्रमः । भुञ्जानकजनाकीणे ययौ भोजनमण्डपम् ॥१४॥ तत्राहारं विचित्रान्नप्रकारमकरोदथ । उपस्पृश्यात्तताम्बूलः सौधारवलभीमगात् ॥१५॥ अध्यास्य स्नपर्यत तत्र नेत्रोत्तरच्छदम् । वीणादिकविनोदेन दिनशेष निनाय सः ॥१६॥ कृत्वा देवार्चनं सूर्यबिम्बेऽस्ताचलचुम्बिनि । कल्पितोदारशृङ्गारः प्रायादास्थानमण्डपे ॥१७॥ वीक्षणाभाषणप्रीतं राजलोकं विसृज्य च । द्वाःस्थादिष्टपथः क्षमापः प्रापदन्तःपुरान्तरम् ।।१८॥ ज्योत्स्नाविशदनेपथ्यां व्रतकर्शितविग्रहाम् । शशिलेखामिवापश्यत् तत्रासौ मदिरावतीम् ॥१९॥ पिबन्ती स्मितनेत्राभ्यामभ्युत्थानविधायिनीम् । वामदेशे निविश्यैतां निविष्टो हेमविष्टरे ॥२०॥ कृत्वाऽवतारणं तत्र वारस्त्रीषु गतास्वथ । भुक्त्वालङ्कारताम्बूलं पात्रं याते सखीजने ॥२१॥ स्वभावसुभगामङ्गगुणैर्मधुरिमादिभिः । सालङ्कारां चकारेमां स विद्वानिव भारतीम् ॥२२॥ 'तत्क्षणोद्भूतकन्दर्पविकारोऽतिमनोहरम् । पीडितस्तनमाश्लिष्य शयनीये निनाय ताम् ॥२३॥ जगादेति च किं देवि ! मद्वतैन तव व्रतम् । यदशामीदृशीं नीतमङ्गं कुसुमकोमलम् ।।२४।। देव ! पद्माप्रसादेन सर्व सफलमावयोः । तयोः संलपतोरेवं सुखनिद्रा समागमत् ॥२५॥ निशान्तसमये देव्याः स्तन्यमैरावतः पिबन् । स्वप्नेऽम्बिकाया हेरम्ब इवादृश्यत भूभृता । २६॥ प्रबुद्धो बन्दिनां ध्वानरानन्द्य स्वप्नशंसनात् । देवी प्रागुत्थितां राजा निर्ययो वासवेश्मनः ॥२७॥
१द। २क । ३ यां । * In the T M the king speaks this and not the queen,
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org