________________
अथ द्वितीयं प्रयाणकम् । प्रातर्विधि विधायाथ वेदिकायामुपाविशत् । तं च प्राणेमुरागत्य पौर': स्मितमुखाम्बुजम् ॥१॥ आकारोन्नीततत्त्वैस्तैरनुयुक्तः स उक्तवान् । वृत्तान्तं श्रीप्रसादान्तं प्रारभ्यामरदर्शनात् ॥२॥ अदर्शयच्च तेषां ते दिव्यहाराङ्गुलीयके । सर्वेऽप्यथ तमुर्वीशं प्रशसंसुः सविस्मयाः ॥३॥ रत्नाध्यक्षमथ क्ष्माभृज्जगादायं महोदधे! । हारश्चन्द्रातपः पूज्यो दिव्यरत्नान्तिके त्वया ॥४॥ अङ्गुलीयकमेतत् तु वज्रायुधचमूपतेः । प्रस्थापय प्रयातस्य जेतुं कर्णाटभूपतीन् ॥५॥ वाच्यो विजयवेगाख्यस्तत्प्रधानो यथा त्वया । निशायुद्धेषु सेनान्यः सन्निधेयमिदं सदा ॥६॥ आदिश्यैवमथोत्थाय राजलोकपरिष्कृतः । स्तुतार्थ सर्वराज्ञीभिरारब्धविविधत्तम् ॥७॥ नृपतिज्ञातिलोकेनाय॑मानकुलदेवतम् । ससंभ्रमं वयस्याभिः पृच्छचमानद्विजव जम् ॥८॥ पुरोधसाऽभितः कार्यमाणशान्तिपयःकणम् । प्रगुणीकृतमाङ्गल्यं स ययौ राजमन्दिरम् ॥९॥ कृतस्नानस्य तत्रास्य वस्त्रालङ्कारधारिणः । विदधे वारनारीभिरवतारणमङ्गलम् ॥१०॥ राजलोकं विसृज्याथ बन्दिघोषैः सहोत्थितः । अध्यारुह्य वशां विश्वसामन्तपरिवारितः ॥११॥ स्थानस्थानात्तमाङ्गल्यः पुरं पश्यन् ध्वजोधुरम् । शनैः शक्रावताराख्यं जगाम जिनमन्दिरम् ॥१२॥ युग्मम् । तत्रादिजिनमभ्यर्च्य गत्वा चैत्येषु सर्वतः ।
स्त्रीनेत्रैः पीयमानास्यलावण्यः सौधमासदत् ॥१३॥ १ स्कृ। २ म । ति. म. २
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org