________________
श्रो पल्ली पालवंशीयधनपालविरचितः
अयोध्यया सह न्यस्तं शक्रेणादिजिनाधिपम् । नत्वाऽभिमुखमायान्तं तेजःपुञ्जमिवाङ्गिनम् ॥ ४० ॥ म्लायन्माल्यादिभिश्चिहै रुन्नीतच्यवनक्षणम् । तारहाराद्यलंकारप्रभापूरित मण्डपम् ॥४१॥ प्राविशन्नेव तद्द्वारि देवमेवं व्यलोक्य सः । सविस्मयोऽमुचत् स्वङ्गं प्रभुत्वाहंकृतिं तथा ॥ ४२ ॥ अथोपसृत्य चक्रे च स्वागतं रचिताञ्जलिः । सोऽपि तं वीक्ष्य सर्वाङ्गं निरुद्धगतिरभ्यधात् ॥ ४३ ॥ राजन् ! स त्वं कृतश्लाघो मघोना मेघवाहनः । आख्यातः समयाख्यानदक्षिणैरिव लक्षणैः ॥४४॥ मामप्यवेहि धर्मात्मन् ! सौधर्मस्वर्गवासिनम् । ज्वलनप्रभनामानमिन्द्रसामानिकं सुरम् ||४५॥ सम्प्रति स्वर्गतः सोऽहं प्रस्थितः पथि च व्रजन् । वीक्ष्य तीर्थमिदं नन्तुमन्तरिक्षादवातरम् ॥ ४६ ॥ निवारितभवापातं जातं देवस्य दर्शनम् । फलितं च तवाकाण्डदर्शनेन महीपते ! ||४७॥ गन्ताऽस्मि त्रिजगद्वीपे [ द्वीपे ] नन्दीश्वराभिधे । सुरस्तत्रास्ति मे मित्रं सुमालीति महर्द्धिकः ॥४८॥ स्वयंप्रभाssख्यया देव्या जिनायतनसम्पदम् । द्रष्टुं त्रिविष्टेपान्नीतः प्रीतश्च रमतेऽनया ॥ ४९॥ तस्मिन् रतिविशालाऽस्य नगरी च गरीयसी । साऽद्य मेऽनुचरैर्दृष्टा विचरद्भिरितस्ततः ॥५०॥ तत्र सत्यप्यनाथेव निर्जनेवं गतोत्सवा | ऐक्षि मन्दिरमप्यस्य म्लानवन्दनमालिकम् ॥ ५१ ॥ तदिदं सकलत्रस्य तस्य च्यवनसूचकम् । विपर्यासाः पदार्थानामन्यथा न भवन्त्यमी ॥५२॥ तद् गत्वा बोधयिष्येऽमुं संसारासारतां वदन् । नीत्वा च रजनीमेतां निवर्त्तिष्ये दिवं प्रति ॥५३॥ १ छ । २ नेनव ।
Jain Education International 2010_05
For Private & Personal Use Only
[. प्र०
www.jainelibrary.org