________________
तिलकमञ्जरीसारः । कालोचितं' करिष्ये च धर्मानुष्ठानमञ्जसा । यतो मे स्वल्पमेवायुः स्तोका च त्रिदिवस्थितिः ॥५॥ समये कथमप्याप्तदर्शनस्य तवाधुना। मन्मानसं प्रियं कर्तुं किश्चिदुत्सहतेतराम् ॥५५॥ प्रियं प्रियङ्गुमञ्जर्याः कण्ठाश्लेषेषु मामिव । एतं चन्द्रातपं हारं गृहाणानुगृहाण माम् ॥५६॥ अयं हि मथनस्यान्ते श्रयन्त्यै हरिमन्दिरम् । दुहित्रे वार्चिना दत्तस्तया कण्ठे धृतश्चिरम् ॥५७।। जयन्तजन्मनि प्रत्तैस्तया शच्यै तयाऽन्यदा । सख्युः प्रियङ्गुसुन्दर्या मत्प्रियायाः समर्पितः ॥५८॥ कर्मण्यादिश्य धर्ये तां स्वर्गान्निर्ग[च्छ]ताऽधुना । आप्तो मया ततः कण्ठादुत्कण्ठाधिविनोदनम् ॥५९॥ महाभागेर्ने मान्याऽसौ प्रथमप्रार्थना मम । यतोऽयमगृहीतोऽपि भवता गत एव मे ॥६॥ अल्पशेषायुषस्त्वेष मम तस्याश्च जातुचित् । प्रथये[द] दृक्पथातिथ्यं भवन्मैत्रीपवित्रितः ॥६॥
आवयोर्भवताऽप्येवं भवत्युपकृतं महत् । तन्निर्विचारग्राह्योऽयमस्मानुपचिकीर्षता"॥६२॥ इत्थं समर्प्य तं हारं मित्रागारं जगाम सः । नृपश्चाभ्यर्च्य नाभेयमिन्दिरामन्दिरं गतः ॥६३॥ श्रियः सायंतनी पूजां कृत्वा स्तोतुं प्रचक्रमे । तव सेवाऽनुभावोऽयं देवि ! यन्मादृशामपि ॥६४॥ नैसर्गिकस्वरूपेण स्वर्गिणो यान्ति दृक्पथम् । एतच्च भूषणं तेन दत्तं मम महात्मना ॥६५॥ तथाऽप्येतत् तवैवेति न मम स्पर्शमर्हति । इत्युक्त्वा मुक्तवान् हारं देवीपादाब्जयोः पुरः ॥६६॥ कुलकम् । अत्रान्तरे नभोरन्ध्र प्रतिध्वानेन पूरयन्" ।
उल्ललास स्फुटं हासध्वनिः कर्णज्वरावहः ॥६७॥ १ त। २ या । ३ मा । ४ प्रमत्त। ५ साच्ये। ६ वि। ७ ग्ये । ८ । ९ स्या । १.र्व । ११ शा। १२ मु । १३ स । १४ त् ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org