________________
तिलकमञ्जरीसारः । मयाऽपत्यार्थमाधेयं देवताराधनं वने । माप्रसादात् ततः स्थेयं त्वया गुरुजनान्तिके ॥२६॥ सहैवैष्यामि नाथाहमित्युक्तेऽसौ निवारिता । साञ्जनाश्रुभिरास्येन्दुं कलङ्कयति केवलम् ॥२७॥ तस्माद् बोधयितुं पूज्य ! युज्यते भवतोऽप्यसौ । इत्याख्याते क्षणं ध्यात्वा पुनः स मुनिरभ्यधात् ॥२८॥ राजन् ! वनभवैः क्लेशैरलं स्वकुलदेवताम् । निजोपवन एव त्वं राजलक्ष्मी प्रसादय ॥२९॥ गृहाणेमां च कल्पद्रुकल्पां विद्याधरार्चिताम् । दुर्लभामल्पभाग्यानां त्वं विद्यामपराजिताम् ॥३०॥ नियम्येन्द्रियशाखासु प्लवमानं मनःकपिम् । जप त्रिसन्ध्यमप्येतां कृतश्रीदेवताचनः ॥३१॥ वीक्ष्य पाण्यथो रक्षां कृत्वा स्वस्य नृपस्य च । विद्यां न्यवेदयत् कर्णे नीचैरुच्चरिताक्षरम् ॥३२॥ आज्ञापयदथो राज्ञीमाप्रसादात् त्वयाऽपि च । दूरस्थयैव कार्याऽस्य भक्तिर्भर्तृजनोचिता ॥३३॥ राजन्नहमिहायातः पुष्करद्वीपतोऽधुना । जम्बूद्वीपस्थतीर्थेषु प्रयातव्यं मया पुनः ॥३४॥ अनुजानीहि मामेवमुक्त्वा विद्यां स खेचरीम् । जपन् सौधाज्जगाम घां तडित्वानिव नीरधेः ॥३५॥ राजाऽपि तद्वियोगातः क्षणं स्थित्वाऽवतीर्य च । सानन्दो मुनिवृत्तान्तं प्रधानेभ्यस्तमभ्यधात् ॥३६॥ अथोपवन एवायं देवायतनमद्भुतम् । उन्मणिस्तम्भमुत्तुङ्गप्रकाराग्रमकारयत् ॥३७॥ मुक्तामयं श्रियो बिम्ब प्रतिष्ठाप्य तदन्तरे । कृतस्नानः शुचिक्षौमो विधिनाऽऽराधयन्नृपः ॥३८॥ अभ्यर्च्य श्रियमन्येयुः प्रदोषेऽसिलतासखः । असौ शक्रावताराख्यं जगाम जिनमन्दिरम् ॥३९॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org