SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ [प्र. श्रीपल्लीपालवंशीयधनपालविरचितः आयान्तमुल्लसद्यज्ञोपवीतं वल्कलावृतम् । अपश्यतां जटाजूटधरं तौ खेचरं मुनिम् ॥१२॥ युग्मम् । अर्घादिक्रिययाऽऽकृष्टचेतास्तत्रावतीर्य सः । राज्ञा न्यस्ते स्वहस्तेन निविष्टो हेमविष्टरे ॥१३॥ . ' सपर्यामुचितां कृत्वा नवा प्रोवाच भूपतिः । भगवन्नध धन्योऽहं यद् गृहानागमद् भवान् ॥१४॥ तदादिश किमाधेयं राज्यं कोशो बलं मम । त्वदायत्तमिदं येन कार्य तदनुगृह्यताम् ॥१५॥ निःस्पृहोऽथ महर्षिस्तं व्याजहार महीपते । । राज्येने त्यक्तसंगस्य सप्ताङ्गेनापि किं मम ॥१६॥ . शंस तावत् किमाख्याऽसौ कमनीयतमा पुरी । को वाऽमुष्यां महाभागः कश्च वंशस्त्वयोदितः ॥१७॥ सर्वलक्षणसम्पूर्णा का चेयं पुण्यभागिनी । किमर्थं च भवानन्तःसंतप्त इव दृश्यते ॥१८॥ सकज्जलकराम्भोजव्यञ्जिताचप्रमार्जना । इयं च लक्ष्यते सद्यो रोदनाद् विरतेव किम् ॥१९॥ .. भूपोऽभ्यधादयोध्याऽसौ पूरहं मेघवाहनः । शासिता कियतोऽप्यस्य भारतस्य रघूद्वहः ॥२०॥... इयं च प्रेमपात्रं मे कलत्रं मदिरावती । मुक्त्वाऽनपत्यतामेकां न किञ्चित् खेदकारणम् ॥२१॥ अध प्रातरपत्यार्थमुपायांश्चिन्तयन्नहम् । लोकमीदृशमश्रौषं, बन्दिना समुदीरितम् ॥२२॥ 'क्षपा विपदिव क्षीणा नृपाराधय देवताः । भवरकुलमिवोदेति चण्डदीधितिमण्डलम्' ॥२३॥ अथाचिन्तयमस्यैव सारस्वतमिदं वचः ।। स्वीकृत्याराधयिष्यामि वने कामपि देवताम् ॥२४॥ .. निश्चित्येत्थमथोत्थाय प्रातःकृत्यं विधाय च । : प्रासादामस्थितामेत्य देवीमेतामवादिषम् ॥२५॥ १ म । ३ स्ये । ३ ष्टयां । ४ क्षि । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002611
Book TitleTilakmanjarisara
Original Sutra AuthorPallipal Dhanpal
AuthorN M Kansara
PublisherL D Indology Ahmedabad
Publication Year1969
Total Pages146
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy