SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ अथ श्रीपल्लीपालवंशीयधनपालविरचितः ति ल क म जरी सारः। [अथ प्रथमं प्रयाणकम्] [नमः] श्रीचिदानन्दाय । श्रीनाभेयः श्रियं दिश्यात् यस्यांशतटयोर्जटाः । भेजुर्मुखाम्बुजोपान्तभ्रान्तभृङ्गावलिभ्रमम् ॥१॥ जडोऽपि यत्प्रभावेन भवेन्मान्यो मनीषिणाम् । सदा सेव्यपदा मह्यं सा प्रसीदतु भारती ॥२॥ नमः श्रीधनपालाय येन विज्ञानगुम्फिता । कं नालङ्कुरुते कर्णस्थिता तिलकमञ्जरी ॥३॥ तस्या रहस्यमादाय मधुव्रत इवादरात् । मन्दवागपि संक्षेपादुद्गिरामि किमप्यहम् ॥४॥ कथागुम्फः स एवात्र प्रायेणार्थास्त एव हि । किश्चिन्नवीनमप्यस्ति रसौचित्येन वर्णनम् ॥५॥ तत्कथासङ्ग्रहेऽमुत्र बन्धमात्रविशेषतः । सन्तः सन्तोषमायान्तु यतः प्रकृतिवत्सलाः ॥६॥ अस्त्ययोध्यापुरी रम्या या शौर्याकृष्टचेतसा । ईक्ष्वाकूणां महेन्द्रेण वितीर्णेवामरावती ॥७॥ आसीदतिबलस्तस्यां राजा श्रीमेघवाहनः । यत्प्रतापप्रदीपान्तः शत्रुभिः शलभायितम् ॥८॥ देवी तन्मानसोन्मादमदिरा मदिरावती । मग्ना यदङ्गलावण्ये' रतिरूपकथाप्रथा ॥९॥ तयोः सुकृतसम्पन्नविश्ववाञ्छितयोरपि । अपत्यानाप्तिरेकैव दुनोति स्म मनोऽनिशम् ॥१०॥ अन्यदा भद्रशालस्य चन्द्रशालमधिस्थितौ । घोतयन्त दिशं याम्यां महसा सहसाऽम्बरात् ॥११॥ १ ण्य । __Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002611
Book TitleTilakmanjarisara
Original Sutra AuthorPallipal Dhanpal
AuthorN M Kansara
PublisherL D Indology Ahmedabad
Publication Year1969
Total Pages146
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy