________________
श्रीपल्ली पालवंशीयधनपालविरचितः
सङ्कल्प्य सिंहलाधीश सुतं त्वद्भ्रातरं वरम् । मया मलय सुन्दर्या विवाहः प्रस्तुतोऽधुना ॥ ५३॥ वल्कलैरेव संवीता नीता चायुष्मती गृहम् । लग्नं प्रतिष्ठितं मित्रज्ञातिवर्गों निमन्त्रितः ॥ ५४ ॥ मत्सङ्कल्पस्ततः स्वल्पजनजल्पविबाधितः । नेयः कल्पायुषा नायमुपहासकथामिति || ५५॥ कुमारोऽथ तमूचेऽत्र युवराजः कथं श्रुतः । अज्ञातकुलशीलश्च तातेन कथमादृतः १ || ५६ ॥ स चाख्यत् प्रस्थिते देवे गतायां ह्यस्तने दिने । ह तिलकमञ्जय प्रारब्धेऽथ महोत्सवे ॥ ५७॥ सखी तिलकमञ्जर्य्याः प्रमोद विक सन्मुखी । मृगाङ्कलेखा नाम श्रीपत्रलेखां व्यजिज्ञपत् ॥ ५८ ॥ वर्द्धसे देवि ! काञ्चीन्द्र सुतावर समागमात् । द्वितीयेनोत्सवेनेति विज्ञप्याथ यथाश्रुतम् ॥ ५९ ॥ पुरस्तिलकमञ्जय देवेनैव निवेदितम् । वरं मलय सुन्दर्याः सिंहलेन्द्रसुते जगौ ॥६०॥ श्रुत्वेति साऽवदच्चित्रलेखे ! मलयसुन्दरीम् । इहानाहं पश्यामि येनोद्वाहं द्वयोरपि ॥ ६१ ॥ साऽप्यूचेऽनुपगन्धर्वदत्तं कृत्यमिदं तव । परं विचित्रवीर्येण कार्यमित्यादिशन्मुनिः ॥ ६२॥ तदादिशसि चेद् गत्वा तमेवात्र प्रवर्त्तये । देव्यादिष्टाऽथ सा सर्वमन्वतिष्ठद् यथोचितम् ६३ ॥ मयेति सर्व विज्ञप्तं देवादिष्टं तवाधुना । जामाता प्रेष्यतामाशु लग्नमासन्नमेव यत् ॥ ६४॥ आस्ते काञ्चीपतेलों को वैरालोकनलोलुभः ।
गन्धर्वदत्ताऽपि सुतापाणिग्रहोत्सुका ॥६५॥ प्रशान्तवैराश्रमत आनीताऽचैव दुर्बला । तरङ्गलेखाऽप्युद्गाढस्पृहा गन्धर्वकागमे ॥ ६६ ॥
१ प १२ सं । ३ गा । ४ वे । ५ य । ६ वरस्यालोकलोलुभः ।
Jain Education International 2010_05
For Private & Personal Use Only
७ स्वस्र
[ प्र०
www.jainelibrary.org