________________
तिलकमञ्जरीसारः। अङ्गराजस्तु मुषित इवाविष्ट इव क्षणात् । मूर्छा क्षणाच्च चैतन्यमांवहन्मौनमाश्रयत् ॥४०॥ कुमारोऽपि तमालोक्य नूनं पूर्वभवस्मृतेः । संशोकोऽयमिति ज्ञात्वा धीरः स्वस्थ इवावदत् ॥४१॥ युवराज ! पुराजन्मभुक्तसौख्यानि संस्मरन् । पृथग्जन इवेत्थं किं विमुह्यसि मुहु[मुहुः ॥४२॥ किञ्च तैः साध्यते स्वल्पैः [स्वप्न] सङ्कल्पितैः फलम् । तद् विधेहि धियं धीर ! कार्ये कालोचितेऽधुना ॥४३॥ दर्शयोत्कण्ठितायाः स्वं काञ्चीभूपभुवश्चिरात् । सा हि ते जन्मद्वितयप्रिया मोहं वितन्वती ॥४४॥ वनप्रवेशात् पँभृति त्वदुदन्ते तिरोहिते । मृत्योरप्यधिकं दुःखं वहमानाऽवतिष्ठते ॥४५॥ अवदत् सोऽपि यद्येवं तत् कुमार ! समादिश । अस्मदागमनोदन्तहरं कञ्चिन्नभश्चरम् ॥४६॥ अहं स्वयंप्रभारागात् कृतागाः* प्रेक्षितुं क्षमः । तस्या नैवास्यमित्युक्त्वा स्थिते द्वाःस्था व्यजिज्ञपत् ॥४७॥ किञ्चिद् विज्ञप्तुमायातो द्वारेऽस्ति खचरेशितुः । विचित्रवीर्यदेवस्य पुमान् कल्याणकाभिधः ॥४८॥ विजनं क्रियतां देव ! इत्याकोत्थिते जने । स्वराप्रवेशितो नत्वा सोऽपि लेखं पुरोऽक्षिपत् ॥४९॥ अवाचयत् कुमारस्तं स्वस्तिश्रीमत्त्रिकूटतः । राजा विचित्रवीर्यः श्रीनिर्जितस्वर्गसम्पदि ॥५०॥ विजयाोत्तरश्रेणी लोकोत्तरगुणाश्रयम् । महौजसं महाराजनन्दनं हरिवाहनम् ॥५१॥ संयोज्याम्बुधिपर्यन्तपृथिवीविजयाशिषा ।
प्रीणात्य॑मन्दमालिङ्गय स्वदेहारोग्यवार्तया ॥५२॥ १ भ । २ स्व । ३ ना । ४ य । ५ ष्ट ।
* This indicates that स्वयंप्रभा and प्रियंवदा were two different beloveds of yarnt and this clears the point referred to in the कृतविप्रियः प्रियंवदाभावतः प्र[]ति. in TM. p. No. 421 (21 ff). ६ ण्र्णो । ७ स्य ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org