________________
८८
श्रीपल्लीपालवंशीयधनपालविरचितः
ततः फलाशना भूमि [ शय्या ] त्वदर्शनाशया । अनोनान् + गमयामास षण्मासान् वनवासिनी ॥ २६ ॥ अथाद्य स्व(श्व) स्तनमहं दिनमीक्षितुमक्षमः । इममिष्टतनुत्यागः प्रपातभृगुमागमम् ||२७|| आरुढस्तत्र च प्राणिघातरक्षणदीक्षितैः । विद्याधरैरिहेदानीं देवस्थानीय दर्शितः ॥ २८॥ इति गन्धर्व देव्याः पूर्ववृत्त प्रजल्पति । स्मरामि स्म सुखं सर्व गीर्वाणभवसम्भवम् ॥२९॥ क्षणं स्थित्वा स्मृतेः सद्यः सुखद्विषि [ समुत्सुक ]: । वृत्ते तिलकमञ्जर्याः कार्यान्तरपराङ्मुखः ||३०|| गन्धर्वकाय नेपथ्यं दत्त्वाऽथ जिनमन्दिरम् । एकशृङ्गशिरोरत्नम गच्छं सपरिच्छदः ||३१|| श्रीनाभेयमिहाभ्यर्च्य पश्यन्मण्डपसम्पदम् । प्रेक्ष्य प्रशस्तिं स्प[ष्ट] लिपिवेर्णोत्कीर्णामवाचयम् ॥३२॥ आभाष्य दर्शनोल्ला समुदं मलयसुन्दरीम् । गन्धर्वकं स्ववृत्तान्तं वक्तुमुक्त्वा तदन्तिके ॥ ३३ ॥ द्वाःस्थोपदिश्यमानाऽघात् [ त]मारामं प्रविश्य च । कदलीमन्दिरान्तःस्थां मृणालप्रायभूषणाम् ॥३४॥ विषण्णाभिर्वयस्याभिः प्रयुक्तशिशिरक्रियाम् दूरादेवावलोके स्म देवी तिलकमञ्जरीम् (?) ||३५|| दिष्ट्यासि वर्द्धसे देवि ! प्राप्तः श्रीहरिवाहनः । श्रुति लोकाद् विहिताभ्युत्थानां तामवादिषम् ॥ ३६ ॥ नतस्तु सम्भ्रमेणालमङ्गेनैव कृशेन ते" । प्रेमन्यञ्चितमित्युक्त्वा हेमपीठे निविष्टवान् ||३७|| अत्रान्तरे भवानेव प्राप्तो गन्धर्वकान्वितः । जोहारात् प्रारभ्य सुहृदो दर्शनावधि ॥ ३८ ॥
इति स्ववृत्तमावेद्य विरते हरिवाहने ।
पार्श्ववर्ती स सर्वोऽपि जनः सम्मदमासदत् ॥ ३९ ॥
+ =L ess by one day. १ टूमा । २ । ३ भा । ४ नमां । ५क्षि । ६ न्मु । ७ स्व । ८ ले । ९ कि । १० तेः । ११ प्र । १२ श्व । xअभिधानचिन्तामणि । IV. 118
Jain Education International 2010_05
[ प्र०
For Private & Personal Use Only
www.jainelibrary.org