________________
तिलकमञ्जरीसारः। जिनसमाजिरे प्रातर्निविष्टा वेत्ति कश्चन । वृत्तं कुमारेस्यात्रेति स्वमपृच्छत् परिच्छदम् ॥१४॥ अथ संदीपनो नाम तामभाषत खेचरः । देवि ! प्राचिदिने चित्रमायादेशाद् विचिन्वता ॥१५॥ श्रतं मया निषादेभ्यः स कुमारो यथा किल । अधिवैताढयमारूढः प्रपातं सार्वकामिकम् ॥१६॥ अतस्तु न क्वचित् किञ्चिज्ञातमित्यत्र शंसति । अङ्के मलयसुन्दर्याः साऽपत-मोहविह्वला ॥१७॥ चिरेणानुचरीवृन्दाक्रन्देनैव प्रबोधिता । आदिशद् विश्वजगतोजिनार्चाभ्यर्चने सखीः ॥१८॥ मूलचैत्ये स्वयं चैत्य स्तवयित्वा जगदुरुम् । अर्चयित्वा च साऽवोचद् दुःखितप्राणिवत्सल ! ॥१९॥ अपुण्यभागिनस्त्यक्तसुरक्तजनसन्निधेः । जनस्यामुयं शरणं विभो ! भव भवान्तरे ॥२०॥ एवं सबाप्पा विज्ञप्यादृष्टपारसरोवरे । निरुध्यमानोऽप्यालीभिरथाऽचालीत् प्रपित्सया ॥२१॥ अथ श्रुतसुतामृत्युवात्तैनार्तेन चक्रिणा । 'षितोऽभ्येत्य प्रेकर्षाख्यो वेत्रपाणिर्व्यजिज्ञपत्* ॥२२॥ त्वत्पिता देवि ! मद्वाचौऽऽदिशत्युचितमज्झितुम् । जीवितं प्राग्भवारुढप्रेम्णः पत्युर्वियोगतः ॥२३॥ किन्तु श्रुतापदाऽप्यद्य "निमित्तैर्निश्चितं शुभैः । शुभं मया कुमारस्य षभिर्मासैस्तु दर्शनम् ॥२४॥ इयन्तं स्थीयतां कालं वर्सयोत्सुकयापि तत्” ।
इत्युक्ती सोऽपि तत्राऽस्थादलङ्घयं हि गुरोर्वचः ॥२५॥ १न । २ वि । ३ तूज्ञा० । ४ पे । ५ प । ६ लं । ७ का। ८ सुष्टय । ९ नी। १. तया ११ प । *One syllable more than necessary. १२ वावा । १३ त्या । १४ स्वा । १५ तेनि। १६ त्त । १७ त् । १८ क। १९ सो ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org