________________
अथ नवमं प्रयाणकम् । सतश्चागत्य सानन्दविषादा पट्टमण्डपम् । देवी मुनीनामातिथ्यमन्नदानादिना व्यधात् ॥१॥ भुक्ते परिजने भुक्त्वा तां कुथास्तरणस्थिताम् । ऊचे काञ्चीन्द्रजागत्य वनात् कृतफलाशना ॥२॥ अधुनाऽऽलि ! किमाधेय स्थेयं कान्यप्यहानि किम् । गिराविह विहर्त्तव्यं किं वा तीर्थान्तरेष्वपि ॥३॥ सदुःखं साऽप्यभाषिष्ट सखि ! सम्प्रति कम्पते । अकस्माद् दक्षिणं चक्षुर्न जाने किं भविष्यति ॥४॥ अथागत्याऽगदद् द्वाःस्था देवि ! प्रास्थापि यत् त्वया । प्रस्थानसमये नेतुं कुमारं शिबिरं निजे ॥५॥ दिदृक्षुरि विच्छायश्चित्रमायः स तिष्ठति । श्रुत्वेति किञ्चिन्नावादीद् देवीसाध्वसरुद्धवाक् ॥६॥ ततो मलयसुन्दर्या मोचितः सोऽप्यवोचत । तदा देवि ! त्वदादेशादेकशङ्गं नगं गतः ॥७॥ अन्वेषयं कुमारं तं न तु कापि व्यलोकयम् । तवृत्तं ज्ञातुमादिश्य खेचरानहमागमम् ॥८॥ श्रुत्वेति सान्तःशोकाग्निधूमेनेव गतद्युतिः । ऊचे मलयसुन्दाऽनर्थोऽस्यायं भवत्कृतः ॥९॥ तदुत्तिष्ठ प्रतिष्ठस्व तमन्वेषयितुं स्वयम् । स हि त्वद्गमनज्ञाने न जाने किं व्यवस्यति ॥१०॥ इत्युक्ता यानमारुह्य सा भवन्तं समन्ततः । समन्विष्यैकशङ्गाद्रौ सायमायतनं गतौ ॥११॥ तत्रोद्विग्नभवत्सैन्यलोकेन विहितानतिः । दूरस्थैव जिनं स्तुत्वाऽध्यारोहन्मठमूर्द्धनि ॥१२॥ तत्रानिष्टानि देवस्य ध्यायन्ती तानि तानि सा । कृच्छ्रामन्मलयसुन्दर्याऽऽश्वास्यमानाऽनयन्निशाम् ॥१३॥
१द । २ य । ३ प्र । ४ तः । ५ को । ६ स्व । ७ र्याः । ८ ष्ट । ९ ज १० गतः । ११व । १२ स्वा ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org