________________
तिलकमञ्जरीसारः । तेनेत्युक्ते समाहूय सुहृदं हरिवाहनः । लेखं संदर्य वृत्तान्तमाख्यत् कल्याणकोदितम् ॥६७॥ विहस्य व्याजहारेदमद्यापि युवराज ! किम् । "विलम्बसे समुत्तिष्ठं कुरुष्व गुरुशासनम् ॥६८॥ यतः काञ्चोन्द्रजा दृष्टे त्वयि त्यक्ष्यति वल्कले । इत्युक्त्वा तं सुवेलाद्रौ प्राहिणोत् सपरिच्छदम् ॥६९॥ सविस्मयः स्वयं चायं सायं स्वावासमवजत् । विभातायां विभाव- सभामण्डपमागमत् ॥७०॥ तत्रासीनस्य तस्यैत्य चक्रसेननिदेशतः । नृपाभिषेकमाङ्गल्यं प्रधानपुरुषाः व्यधुः ॥७१॥ अथारोग्योपलम्भाय प्रत्यहं प्रहितैर्जनैः ।। दर्शितप्रीत्यसौ चक्रसेनं चक्रिणमीक्षितुम् ॥७२॥ मेखलासङ्गिनी चारुरचनाभङ्गिमायताम् । विजया श्रियो वेणिं दक्षिणश्रेणिमागमत् ॥७३॥ आकणितागमद्गीतः प्रत्युद्गम्य कृतोत्सवः । चक्रभृच्चक्रसेनस्तमावासेऽनयदात्मनः ॥७४॥ तत्राहारं कृतानेकोपचारस्तमकारयत् । यियासुश्च ययाचेऽसौ किञ्चित् कालमवस्थितिम् ॥७५॥ बद्धस्तिलकमञ्जाः प्रेमपाशेन सोऽप्यथ । सस्मितास्यस्तदेवास्य वचनं प्रत्यपद्यत ॥७६॥ अन्यदा निरवद्येऽहि समाहत महीभुजा । आदिष्टपुरशोभेन भोजितज्ञातिपङ्क्तिना ॥७७॥ राज्ञा श्रीचक्रसेनेन दत्तां तिलकमञ्जरीम् । पाणिग्रहोचिताकल्पां विधिवत् पर्यणायि सः ॥७८॥ स्थित्वा श्वश्रूजनप्रीतिकृते कान्य यहानि च । याचकानुभयश्रेण्याः कृत्वा त्यागादयाचकान् ॥७९॥ सौभाग्यमञ्जरी कृत्वा पुरस्तिलकमञ्जरीम् । जयवारणमारूढो विधृतातपवारणः ।।८०॥
१ बि ।
२
ष्ट ।
३ प्र। ४
वे ।
५
ह ।
६
चः ।
____Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org