________________
तिलकमञ्जरीसारः। चित्रमायो दिनान् कांश्चिदनुगम्य जगाद माम् । त्वामानेतुं कुमाराहं व्याहृतो मुहुरार्यया ॥१३॥ तन्मया किमु कर्तव्यमथ सव्यथमभ्यधाम् । भद्र ! गच्छास्ति निर्बन्धो बन्धोरन्वेषणे मम ॥१४॥ वद मद्वचसा चैतामारभ्भः पुनरेष मे । कार्यं तदैव खेदस्तन्न कार्यः कश्चिदार्यया ॥१५॥ यथा भवति देवी च सप्रसादा सदा मयि । तथा किञ्चित् प्रवर्त्तथा इत्युक्त्वा तं व्यसर्जय[म्] ॥१६॥ अहं चान्वहमन्विष्यस्त्वामटव्यामथाविशम् । तस्यामपश्यमश्वेनायातं गन्धर्वकं जवात् ॥१७॥ उत्तीर्य मां ननामायमथाऽनामयभाषणम् । विधायाहमधिश्रित्य शिलामेकां तमालपम् ॥१८॥ को गन्धर्वक ! वृत्तान्तस्तदाऽभूत् प्रस्थिते मयि । ज्ञाता वयं कुतोऽत्रस्थाः किमायातस्त्वमुत्सुकः ॥१९॥ सोऽवदत् प्रस्थिते देवे स्थित्वा काञ्चीन्द्रजा क्षणम् । आपृच्छतैकशृङ्गाद्रो गन्तुं तिलकमञ्जरीम् ॥२०॥ साऽपि त्वद्गमनोद्विग्ना तां विना स्थातुमक्षमा । अत्रापि सखि ! सुप्रापं स्नानं क्रीडादिनिझरे ॥२१॥ सुलभं कन्दमूलादि मन्दिरोद्यान एव मे । यद्वा ते दर्शयामीति तामुक्त्वोद्यानमानयत् ॥२२॥ यत्र यत्रासितं तत्र भवता तत् तदान्वहम् । तदर्शनापदेशेन पश्यन्ती व्यचरच्चिरम् ॥२३॥ अथानुरोधस्थितया साई काञ्चीन्द्रकन्यया । विनोदैः साऽनयद् वीणावादनाचैदिनानिमान् ॥२४॥ अद्य तु प्रातरेवासौ स्वसौधशिखरस्थिता । पश्यन्ती त्वत्पथं चित्रमायमायान्तमैक्षत ॥२५॥ ततो मलयसुन्दर्या विलक्षं चक्षुरक्षिपत् ।
साऽप्यपृच्छदुपेतं तं कुमारः किमु नागतः ? ॥२६॥ १ रो। २ चे । ३ क्वौ । ४ म्य । ५ व । ६ मा ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org