________________
७६
श्रीपल्ली पालवंशीयधनपाल विरचितः
स प्रणम्याऽवदद् देवि ! सिंहलेन्द्रसुतः सुहृत् । कुमारस्यास्ति समरकेतुर्नाम भियामभूः ॥२७॥ स चात्तद्विपरूपेण मया गन्धर्वकाज्ञया । हृतं कुमारमन्वेष्टुं कान्तारेऽविशदुत्तरे ॥२८॥ इतो गतः कुमारोऽपि वाहैर्वेगात् तमन्वगात् । तमपश्यन् बहु भ्रान्त्वा तदेव प्राविशद् वनम् ॥२९॥ एवमस्मिन् वदत्येव हा ! कुमार ! तवाप्यहो ! | सुकृती स कृतोऽरण्यवासक्लेशाय वेधसा ॥ ३० ॥ इदं वदन्त्येवायाता मोहं मलयसुन्दरी । स्वयमाश्वास्य तामेवमुवाच खेचरेन्द्रजा ॥३१॥ स वयस्यः कुमारस्य संस्तुतस्तेऽपि किं सखि ! | किञ्च तस्येव हेतुर्न वनवासे तवाप्यसौ ॥ ३२ ॥ साऽभाषिष्ट मुहुः पृष्टा सखि ! तिष्ठ किमप्यहम् | श्रुत्वा कुमारकान्तारक्लेशमीशे न जल्पितुम् ॥३३॥ सा बभाषे सस्त्रि ! क्लेशमीदृशं सहते स किम् ? | स्थित्वा त्वदाश्रमे मित्रं नान्वेषयति खेचरैः ॥३४॥ सा व्याहरदिहागन्तुमक्षमः क्षितिगोचरः । अथो मामादिशद् देवी त्वां समानेतुमाश्रमे ॥ ३५ ॥ निजं विमानं विद्याभृत् सहस्रं च मया सह । प्राहिणोदहमायां च चित्रमायाङ्किताध्वना ॥ ३६॥ इत्युक्त्वा त्वरितस्तेन तद्यानमहमास्थितः । आगां मलयसुन्दर्या आश्रमं सपरिच्छदः ॥ ३७॥ तत्र लौहित्यशिबिरात् क्लृप्तेष्टार्थश्च खेचरैः । त्वदीयादर्शनेनैव दूयमानोऽनयं दिनान् ॥ ३८ ॥ अन्यदा सैन्यतः प्राप्तः सुखासीनं प्रणम्य माम् । शङ्खपाणिरिदं रत्नकोशाध्यक्षो व्यजिज्ञपत् ॥ ३९॥ कुमार ! स्वर्गिणो हारः श्रीदत्तोर्मिकया सह । प्रयाणकाले ते विघ्नशान्त्यै देवेन मेऽर्पितः ॥ ४० ॥
१ स्वा । २ । ३त्ता ।
Jain Education International 2010_05
४ त्वे । ५ हः । ६ च । ७ ल
For Private & Personal Use Only
[ प्र०
www.jainelibrary.org