________________
अथाष्टमं प्रयाणकम् । वर्ण्यमानविशेषांस्तांस्तानग्रेसरखेचरैः । पश्यन् वसुन्धरोद्देशानाशु स्वं देशमासदम् ॥१॥ चित्रामायमथाऽवोचं स एष शिखरी सखे ! । यतः स्वहस्तिना हृत्वा नीतास्त्वद्विषयं वयम् ॥२॥ क्षणमात्रं स्थीयतामत्रेत्युक्त्वा यानादवातरम् । एकमैक्षेऽनुगानेकगज' तत्र मतङ्गजम् ॥३॥ ततस्तं प्रत्यभिज्ञाय चित्रमायमवादिषम् । स एवायमहो ! वैरियमदण्डः करी मम ॥४॥ ["सरस्यदृष्टपारे यो मृत इत्यवधारितः । उवाच सो विहस्याऽथ कुमारेदं सुदुर्घटम् ॥५॥ न भूमिगोचरो दृष्टः करेणुः खेचरः क्वचित् । अन्यः कोऽपि भवेत् सोऽयं त्वदीयैव तु वारणः] ॥६॥ तत्प्रोषिता यथा यामस्तथैव शिबिरं पुनः । इत्यादेशात् तदाऽऽनीतमध्यारूढो निजं गजम् ॥७॥ प्रणम्यमानो राजन्यैः प्रविश्य शिविरं ततः । मदर्शनोत्पन्नजनोत्स्वासं स्वावासमव जम् ॥८॥ तदङ्गणोपविष्टं मां द्रष्टुमीयुषि राजके । सखेदोऽदमद्यापि युवराजः किमेति न ॥९॥ राजसूनुर्जगादैको यदा लेखः कुमार ! ते । दृष्टस्तदैव निभतं निशीथे स विनिययौ ॥१०॥ उदीच्यां तं प्रयातं च प्राग्ज्योतिषनृपानुजः । अधारयन्मिधरो निर्बधान्न तु स स्थितः ॥११॥ निशम्य तद्वचस्तप्तः सप्तिभिर्जवनैरहम् । सम्प्रस्थितोऽनुगन्तुं त्वां कर्कमर्क इवोत्तराम् ।।१२।।
9 Followed my many elephants. Here also the poet has missed an important point regaarding the elephant episode. It is proposed to be supplied here thus. ३ च्छ्वासं । १ वे। ५ न्निव० ।
___Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org