________________
तिलकमञ्जरीसारः। यथा लेखो मया नीतः प्रतिलेखो यथा हृतः । पश्यामि सर्व तत्साक्षादक्षतप्राक्तनस्मृतिः ॥१५१॥ एतदेव न वेनीयं कथं काञ्चीन्द्रसम्भवा । निर्विषाऽभूत् कथं च स्वं देहमद्याहमासदम् ॥१५२॥ इत्याख्याते च तेनाहं सार्द्ध सोधपुरन्ध्रिभिः । क्षणं सविस्मयोल्लेखं स्थित्वा लेखमवाचयम् ॥१५३॥ स्वस्ति श्रीष्टतमोद्देशे समाराध्यतमोत्तमान् । हरिवाहनपादाब्जान् लौहित्यावासिसैन्यतः ॥१५४॥ नत्वा सभूपः कमलगुप्तो विज्ञपयत्यदः । यल्लेखात् सुधियाऽऽदिष्ट यदन्यदपि साम्प्रतम् ॥१५५॥ तद् विश्वमपि कर्ताऽस्मि प्रतिकर्तुं तु न क्षमः । युवराजस्य समरकेतोः स्नेहमहं परम् ॥१५६॥ श्रुत्वा तन्नाम काञ्चीन्द्रसुताऽम्लायत चिन्तया । आस्ते समरकेतुः किमन्योऽपि स्नेहवानिति ॥१५७॥ मां च म्लानमुखव्यङ्गयस्वदेशगमनेङ्गितम् । सा विलोक्यालपच्चिन्ताचान्ता तिलकमञ्जरीम् ॥१५८॥ लेखं कुमारः प्रेक्ष्यामु यियासुः शिबिरं प्रति । त्वां वक्त पक्षमश्चक्षुर्मुहुः क्षिपति मन्मुखे ॥१५९॥ विसृज्यतो सदेष स्वं लोकमाकुलमीक्षितुम् । सत्वरं वद्गुणाकृष्टमानसः पुनरेष्यति ॥१६०॥ नतवदनमुवाच काञ्चिकन्यामथ रथनूपुरचक्रवालबाला । समयसमुचितं त्वमेव वेत्सीत्यकृत ममानुचरं च चित्रमायम् ॥१६१॥ सखीचित्तज्ञाऽथ द्रविडपतिपुत्री तमवदद् -
द्रुतं भद्र ! प्राप्यः पुनरिह कुमारः कृतकृतिः । सतश्चापृच्छयेते गगनचरचक्रोपनमिते
विमानेऽध्यारूढोऽचलमभि निजं मण्डलमहम् ॥१६२ ॥ इति श्रीतिलकमऊजरीसारे] गन्धर्वकशापापगमो नाम
सप्तमो विश्रामः ।। [इति सप्तमं प्रयाणकम् । ] . १ 'खति० । २ च्च । ३ ग ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org